This page has been fully proofread once and needs a second look.

विद्या सज्जने शोभाप्रदा न धनप्रदेत्यर्थः । दुर्जने मोघा फलत्वावच्छिन्नाज़निका । शो-
भाप्रदापि नेत्यर्थः । अथवा सज्जने विद्यैव शोभायै फलप्रदा न त्वविद्येत्यर्थः । दुर्जने
विद्यैव मोघा निष्फला न त्वविद्येत्यर्थः ॥
 
समीचीनस्वनायक एवं रुचिरुचितेति वादिनीं कांचित्काचिद्वक्ति--
 
सुभगं वदति जनस्तं निजपतिरिति नैष रोचते मह्यम् ।
पीयूषेऽपि हि भेषजभावोपनते भवत्यरुचिः ॥ ६७१ ॥
 
सुभगमिति । जनः । एवं च सर्वेकवाक्यत्वमावेद्यते । तं सुभगं वदति । मयं नि-
जपतिरिति हेतोरेष पतिर्न रोचते । अमुमेवार्थमर्थान्तरन्यासेनाह— भेषजभावापन्ने-
ऽमृतेऽपि निश्चयेनारुचिर्भवति । एवं च निजपतित्वमेव दोष इति भावः । एवं च पति-
पदमर्थवत् । अत्र न रोचते इति प्रागभिधानादमेऽपि रुचिर्न भवतीत्येव युक्तमित्या-
भाति । अरुचिपदाद्देषवत्वप्रतीतेः ॥
 
त्वत्कटाक्षविक्षेपाक्षिप्तः क्षणमपि न त्वां विना धृति लभत इति नायकदूती नायिकां
वक्ति--
 
सौधगवाक्षगतापि हि दृष्टिस्तं स्थितिकृतप्रयत्नमपि ।
हिमगिरिशिखरस्खलिता गवैरावतं हरति ॥ ६७२ ॥
 
सौधेति । सौधगवाक्षगतापि ते दृष्टिः स्थितौ । धैर्यस्येति भावः। पक्षे गतिनिवृत्तौ।
कृतः प्रयत्नो येन तमपि हीति निश्चयेन हिमाचलशिखरात्स्खलिता गङ्गा ऐरावतमिव
हरति । सौधस्य हिमगिरिशिखरसाम्येनात्युच्चत्वं दुष्प्राप्यत्वं च व्यज्यते । एवं च स
त्वयानुग्राह्य इति ध्वन्यते ॥
 
गृहिणीसत्त्वान्न त्वया सह संगतिर्मम चिरस्थायिनीति वादिनीं नायिकां नायको वक्ति--
 
सहधर्मचारिणी मम परिच्छदः सुतनु नेह संदेहः ।
न तु सुखयति तुहिनदिनच्छत्रच्छायेव सज्जन्ती ॥ ६७३ ॥
 
सहेति । हे सुतनु । एवं च स्पृहणीयत्वं व्यज्यते । मम सहधर्मचारिणी परिच्छदः
कुटुम्बकम् । अन्नाच्छादनादिनोपकरणीयेति भावः । इह न संदेहः । तु पुनः सज्जन्ती
सेवातत्परा । पक्षे सजीभवन्ती । शीतदिवसीयच्छत्रच्छायेव न सुखयति । एवं च सा
केवलं कुटुम्बिनीमात्रं त्वं तु रतिसुखदेत्यतस्त्वया सह मत्संगतिश्चिरमवस्थायिनीति
व्यज्यते ॥
 
दुष्टसंपर्कात्त्वन्निकटेन केऽपि समीचीनाः समायान्तीति कश्चित्कंचिदन्योक्त्या
वक्ति--
 
सकलगुणैकनिकेतन दानववासेन धरणिरुहराज ।
जातोऽसि भूतले त्वं सतामनादेयफलकुसुमः ॥ ६७४ ॥