2023-03-25 15:44:53 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
कथं मयैतादृशसमये समागन्तुं शक्यमित्याशङ्क्य दूती नायिकां वक्ति--
संदर्शयन्ति सुन्दरि कुलटानां तमसि विततमषिकल्पे ।
मौलिमणिदीपकलिका वर्तिनियाभा भोगिनोऽध्वानम् ॥ ६६७ ॥
संदर्शयन्तीति । हे सुन्दरि, विततमषीतुल्ये तमसि मस्तकमणय एव दीपकलिका
येषां ते वर्तितुल्या भोगिनः सर्पाः कामुकाश्च मार्गे सम्यग्दर्शयन्ति । एवं च सर्पफणा-
मणिसंजात प्रकाशेनैव तवाध्वज्ञानं भविष्यतीत्यतो मार्गज्ञानाभावशङ्कामपास्य कार्ययं साध-
येति ध्वन्यते । अथवा नायका एव मस्तकस्थमणिप्रकाशैर्मार्गमादर्शयन्तीत्यनेन नातः
परं मयात्रागन्तव्यं किं तु नायक एव त्वामागत्य संकेतं प्रापयिष्यतीति ध्वन्यते ॥
दुष्टस्योत्कर्षेऽन्येषां क्लेशवत्तैव भवतीति कश्चित्कंचिदन्योक्त्या वक्ति--
सर्वं वनं तृणाल्या पिहितं पीताः सितांशुरविताराः ।
प्रध्वस्ताः पन्थानो मलिनेनोद्गम्य मेघेन ॥ ६६८ ॥
सर्वमिति । मलिनेन मेघेनोद्गम्य सर्वेवं वनं वनस्थलं तृणपङ्ख्क्त्याच्छादितम् । सितांशुर-
विताराः पीता आच्छादिताः । मार्गाः प्रध्वस्ताः । वनमित्यनेन विश्रान्तिदातृत्वप्रतिपा-
दनात् सितांशुरित्यनेन सौम्यत्वव्यञ्जनाद्रविरित्यनेन निखिलकर्म प्रवर्तकत्वध्वननात् तारय-
न्तीति व्युत्पत्त्यांया तारा इत्यनेन सद्बुद्धिदातृत्वद्योतनात् पन्थान इत्यनेनावश्यरक्षणीय-
त्वदर्शना देतादृशपुरुषापकारकरणादसमीचीनत्वाविष्करणेन दुष्टपुरुषोदयाशंसनमप्यनु-
चितं किं पुनस्तत्संपादन मिति व्यज्यते ॥
झटिति मन्त्रो न प्रकाश्य इति कश्चित्कंचिद्वदति--
सम्यगनिष्पन्नः सन्योऽर्थस्त्वरया स्वयं स्फुटीक्रियते ।
स व्यङ्ग एव भवति प्रथमो विनतातनूज इव ॥ ६६९ ॥
सम्यगिति । सन् । समीचीनोऽपीत्यर्थः । सम्यक् संपूर्णमसंजातो योऽर्थस्त्वरया
स्वयं प्रकटीक्रियते । स्वयमित्यनेनान्येन प्रकटीकरणे मिथ्यैवायं वक्ति नास्माभिरेवं
विचारितमिति समाधातुं शक्यमित्यावेद्यते । आद्यो विनताया गरुडजनन्यास्तनूजो-
ऽरुणस्तद्वत्स व्यङ्ग एव । एवकारेणान्यथाबुद्धिकरणानर्हत्वं ध्यन्यते ॥
कश्चित्कं कञ्चिद्वक्ति--
सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा ।
न विदूरदर्शनतया कैश्चिदुपादीयते गृधःध्रः ॥ ६७० ॥
सजनेति । समीचीनजन एव विद्या शोभार्थेथं भवति । फलदा भवतीत्यर्थः । दुर्जने
निष्फला । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति – --अत्यन्त दूरदर्शित्वेन गृध्रः कैश्चिन्नोपा-
दीयते । एवं च विद्यावत्त्वेऽपि त्वया दुर्जनलंत्वं न विधेयमिति व्यज्यते । एवकारेणैव न
दुर्जन इत्यर्थप्रतीतौ दुर्जनेत्यादि निरर्थकमिवाभाति । यद्वा शोभायैवेति योजना ।
संदर्शयन्ति सुन्दरि कुलटानां तमसि विततमषिकल्पे ।
मौलिमणिदीपकलिका वर्तिनि
संदर्शयन्तीति । हे सुन्दरि, विततमषीतुल्ये तमसि मस्तकमणय एव दीपकलिका
येषां ते वर्तितुल्या भोगिनः सर्पाः कामुकाश्च मार्गे सम्यग्दर्शयन्ति । एवं च सर्पफणा-
मणिसंजात
येति ध्वन्यते । अथवा नायका एव मस्तकस्थमणिप्रकाशैर्मार्गमादर्शयन्तीत्यनेन नातः
परं मयात्रागन्तव्यं किं तु नायक एव त्वामागत्य संकेतं प्रापयिष्यतीति ध्वन्यते ॥
दुष्टस्योत्कर्षेऽन्येषां क्लेशवत्तैव भवतीति कश्चित्कंचिदन्योक्त्या वक्ति--
सर्वं वनं तृणाल्या पिहितं पीताः सितांशुरविताराः ।
प्रध्वस्ताः पन्थानो मलिनेनोद्गम्य मेघेन ॥ ६६८ ॥
सर्वमिति । मलिनेन मेघेनोद्गम्य सर्
विताराः पीता आच्छादिताः । मार्गाः प्रध्वस्ताः । वनमित्यनेन विश्रान्तिदातृत्वप्रतिपा-
दनात् सितांशुरित्यनेन सौम्यत्वव्यञ्जनाद्रविरित्यनेन निखिलकर्म
न्तीति व्युत्पत्त्
त्वदर्शना
चितं किं पुनस्तत्संपादन
झटिति मन्त्रो न प्रकाश्य इति कश्चित्कंचिद्वदति--
सम्यगनिष्पन्नः सन्योऽर्थस्त्वरया स्वयं स्फुटीक्रियते ।
स व्यङ्ग एव भवति प्रथमो विनतातनूज इव ॥ ६६९ ॥
सम्यगिति । सन् । समीचीनोऽपीत्यर्थः । सम्यक् संपूर्णमसंजातो योऽर्थस्त्वरया
स्वयं प्रकटीक्रियते । स्वयमित्यनेनान्येन प्रकटीकरणे मिथ्यैवायं वक्ति नास्माभिरेवं
विचारितमिति समाधातुं शक्यमित्यावेद्यते । आद्यो विनताया गरुडजनन्यास्तनूजो-
ऽरुणस्तद्वत्स व्यङ्ग एव । एवकारेणान्यथाबुद्धिकरणानर्हत्वं ध्यन्यते ॥
कश्चित्
सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा ।
न विदूरदर्शनतया कैश्चिदुपादीयते गृ
सजनेति । समीचीनजन एव विद्या शोभार्
निष्फला । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति
दीयते । एवं च विद्यावत्त्वेऽपि त्वया दुर्जन