This page has not been fully proofread.

आर्यासप्तशती ।
 
-
 
कथं मयैतादृशसमये समागन्तुं शक्यमित्याशय दूती नायिकां वक्ति-
-
 
संदर्शयन्ति सुन्दरि कुलटानां तमसि विततमषिकल्पे ।

मौलिमणिदीपकलिका वर्तिनिया भोगिनोऽध्वानम् ॥ ६६७ ॥

 
संदर्शयन्तीति । हे सुन्दरि, विततमषीतुल्ये तमसि मस्तकमणय एव दीपकलिका

येषां ते वर्तितुल्या भोगिनः सर्पाः कामुकाश्च मार्गे सम्यग्दर्शयन्ति । एवं च सर्पफणा-

मणिसंजात प्रकाशेनैव तवाध्वज्ञानं भविष्यतीत्यतो मार्गज्ञानाभावशङ्कामपास्य कार्य साध-

येति ध्वन्यते । अथवा नायका एव मस्तकस्थमणिप्रकाशैर्मार्गमादर्शयन्तीत्यनेन नातः

परं मयात्रागन्तव्यं किं तु नायक एव त्वामागत्य संकेतं प्रापयिष्यतीति ध्वन्यते ॥

 
दुष्टस्योत्कर्षेऽन्येषां क्लेशवत्तैव भवतीति कश्चित्कंचिदन्योक्त्या वक्ति-
२१९
 
-
 
सर्वं वनं तृणाल्या पिहितं पीताः सितांशुरविताराः ।
 

प्रध्वस्ताः पन्थानो मलिनेनोद्गम्य मेघेन ॥ ६६८ ॥

 
सर्वमिति । मलिनेन मेघेनोद्गम्य सर्वे वनं वनस्थलं तृणपङ्ख्याच्छादितम् । सितांशुर-

विताराः पीता आच्छादिताः । मार्गाः प्रध्वस्ताः । वनमित्यनेन विश्रान्तिदातृत्वप्रतिपा-

दनात्सितांशुरित्यनेन सौम्यत्वव्यञ्जनाद्रविरित्यनेन निखिलकर्म प्रवर्तकत्वध्वननात्तारय-

न्तीति व्युत्पत्त्यां तारा इत्यनेन सद्बुद्धिदातृत्वद्योतनात्पन्थान इत्यनेनावश्यरक्षणीय-

त्वदर्शना देतादृशपुरुषापकारकरणादसमीचीनत्वाविष्करणेन दुष्टपुरुषोदयाशंसनमप्यनु-

चितं किं पुनस्तत्संपादन मिति व्यज्यते ॥
 

 
झटिति मन्त्रो न प्रकाश्य इति कश्चित्कंचिद्वदति
-
 
--
 
सम्यगनिष्पन्नः सन्योऽर्थस्त्वरया स्वयं स्फुटीक्रियते ।
 

स व्यङ्ग एव भवति प्रथमो विनतातनूज इव ॥ ६६९ ॥

 
सम्यगिति । सन् । समीचीनोऽपीत्यर्थः । सम्यक्संपूर्णमसंजातो योऽर्थस्त्वरया

स्वयं प्रकटीक्रियते । स्वयमित्यनेनान्येन प्रकटीकरणे मिथ्यैवायं वक्ति नास्माभिरेवं

विचारितमिति समाधातुं शक्यमित्यावेद्यते । आद्यो विनताया गरुडजनन्यास्तनूजो-

ऽरुणस्तद्वत्स व्यङ्ग एव । एवकारेणान्यथाबुद्धिकरणानर्हत्वं ध्यन्यते ॥

 
कश्चित्कंचिद्वक्ति -
 
--
 
सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा ।

न विदूरदर्शनतया कैश्चिदुपादीयते गृधः ॥ ६७० ॥

 
सजनेति । समीचीनजन एव विद्या शोभार्थे भवति । फलदा भवतीत्यर्थः । दुर्जने

निष्फला । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति – अत्यन्त दूरदर्शित्वेन गृध्रः कैश्चिन्नोपा-

दीयते । एवं च विद्यावत्त्वेऽपि त्वया दुर्जनलं न विधेयमिति व्यज्यते । एवकारेणैव न

दुर्जन इत्यर्थप्रतीतौ दुर्जनेत्यादि निरर्थकमिवाभाति । यद्वा शोभायैवेति योजना ।
Sri Gargeshwari Digital Finndation,
 
-