This page has been fully proofread once and needs a second look.

दुष्टस्य किमपि कर्म न सम्यक्फलायेति कश्चिद्वक्ति--
 
स्वकपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि ।
द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि ॥ ६६३ ॥
 
स्वेति । स्वस्य कपोलेन प्रकटीकृतम् । दानस्य ततोऽप्युत्पत्तेरिति भावः । अथ च
स्वमुखेनाभिहितं मया दानं कृतमिति । किमप्यनिर्वचनीयं प्रकृष्टमत्तत्वकारणम् । दान-
मपि । अपिनान्यकर्मणः का वार्तेति भावः । गजस्य खलस्य च मदमेव चकार । एवं
च खलसंगतिरनुचितेति व्यज्यते ॥
 
नायकस्य मौढ्यादियमपि मूढैवेति मन्वानमुपपतिं दूती वक्ति--
 
सत्यं पतिरविदग्धः सा तु स्वधियैव निधुवने निपुणा ।
मार्त्तिकमाघाधाय गुरुं धनुरधिगतमेकलव्येन ॥ ६६४ ॥
 
सत्यमिति । पतिरचतुर इदं सत्यम् । अत एव पतिपदं साभिप्रायम् । सा तु स्वबु-
द्ध्यैव सुरते निपुणा । एनमेवार्थमर्थान्तरन्यासेन द्रढयति - --मृत्स्वरूपं गुरुं संस्थाप्यैकलव्य-
नाम्ना निषादेन धनुरधिगतम् । एवं च 'उपदेशक्रमो राम व्यवस्थामात्रपालनम् । ज्ञ-
प्तेस्तु कारणं तात शिष्य प्रज्ञैव केवलम् ॥"' इति वसिष्ठवचनात् । मार्त्तिकं द्रोणाचार्यं
विधायैकलव्येन धनुर्विद्याभ्यस्तेति भारते । एवं च तस्यामचातुर्यं नाशङ्कनीयं त्वयेति
ध्वन्यते ॥
 
नायकदूती नायिकां वक्ति--
 
सौभाग्यमानवान् स त्वयावधीर्यापमानमानीतः ।
स्वं विरहपाण्डिमानं भस्मस्नानोपमं तनुते ॥ ६६५ ॥
 
सौभाग्येति । सौभाग्याभिमानवान् स त्वयावगणय्यापमानं प्रापितः । भस्मस्नानसदृशं
स्वं स्वकीयं विरहपाण्डिमानम् । क्वचित् । 'तव' इति पाठः । तनुते । यथा कश्चिदभिमानी
अवगणितः सर्वाङ्गे भस्म संप्लाव्य सर्वं परित्यज्य दुःखवशात्तिष्ठति तथायं त्वद्विरहरूप-
भस्मस्नानं करोति, अत एनं प्रसन्नीभूयाङ्गीकुर्विति व्यज्यते ॥
 
काचित्कांचिद्वक्ति--
 
सखि मम करञ्जतैलं बहुसंदेशं प्रहेण्यसीत्युदिता ।
श्वशुरगृहगमन मिलितं बाप्ष्पजलं संवृणोत्यसती ॥ ६६६ ॥
 
सखीति । हे सखि । एवं चोपदेशार्हत्वं व्यज्यते । बहूनां संदेशो यत्र । बहुतररो-
गिप्रार्थ्यमानमित्यर्थः । एवं चावश्ययाचनीयत्वप्रेषणीयत्वे व्यज्येते । अथ च बहुतरकामु-
कसंकेतविषयमित्यर्थः । एवंविधं करञ्जतैलं प्रहेष्यसीत्युक्ता श्वशुरसदनगमनावसरसंजात-
बाष्पजलमसती संवृणोति । एवं च तत्रापि मया करञ्जवृक्षसंकेतं विधाय कामुकस्त्वदर्थं
प्रेषणीय इति न कापि त्वया चिन्ता विधेयेति ध्वन्यते । एवं च गृहपदं सार्थकम् ।
बहूनां सम्यग्देशरूपमित्यनेन निगूढतया यथेच्छसुरतयोग्यत्वं ध्वन्यते ॥