This page has been fully proofread once and needs a second look.

प्राग्वत् । एवं च सपत्नीसमक्ष कृतापरास्यातिदुःखदत्वमिति भावः । अथवा सखीना-
मपि । अपिर्नायिकां समुच्चिनोति । मन्युनिमित्ते मयैव विहिते मम वक्षःस्थल एव न
पतितेति काकुः । स्थल एवेत्यनेनात्यन्तसरलत्वं व्यज्यत इत्यर्थः । एवं च मदङ्गनातुल्या
नान्याङ्गनेति ध्वन्यते ॥
 
काचित्कांचिद्वक्ति--
 
सुभग व्यजनविचालनशिथिलभुजाभूदियं वयस्यापि ।
उद्वर्तनं न सख्याः समाप्यते किंचिदपगच्छ ॥ ६६० ॥
 
सुभगेति । हे सुभग । एतादृशाङ्गनासमासक्तिमत्त्वादिति भावः । इयं वयस्यापि ।
एवं च दास्यादेः का वार्तेति भावः । व्यजनस्य विशेषचालने शिथिलहस्ताभूत् । एवं
च शनैर्व्यजनचालने न किमपि भवतीति भावः । सख्या उद्वर्तनं न समाप्यते । सात्त्वि-
कभावरूपस्वेदातिशयादिति भावः । किंचिदितोऽपसर । किंचिदित्यनेन दूरगमने दुःखं
सख्या भविष्यतीति ध्वन्यते । एवं चेयमत्यन्तं त्वय्यासक्तेति ॥
 
नायिकासखी नायकं वक्ति--
 
सत्रीडा नखरदनार्पणेषु कुपिता प्रगाढमचिरोढा ।
बहुयाच्या ञाचरणग्रहसाध्या रोषेण जातेयम् ॥ ६६१ ॥
 
सब्रीडेति । सलज्जा प्रगाढं नखक्षतदन्तक्षतेषु । कृतेष्वित्यर्थः । कुपितेयं नवोढा ।
एवं च नखक्षतादिना कोपौचित्यं ध्वन्यते । रोषेण । त्वदीयेनेत्यर्थः । बहुचाटवचनप्रणि-
पातसमाधेया जाता । एवं च नवोढात्वेन दन्तक्षताद्यसहनेन कुपितायां नायिकायां तव
क्रोधकरणमनुचितमिति भावः । एवं चेदानीं चाटुवचनादिनास्याः कोपमपनय त्वमिति
च्व्यज्यते । तेन च तवैवायमपराध इति ॥
 
कश्चित्कंचिद्वक्ति--
 
सुगृहीतमलिनपक्षा लघवः परभेदिनः परं तीक्ष्णाः ।
पुरुषा अपि विशिखा अपि गुणच्युताः कस्य न भयाय ॥६६२॥
 
सुगृहीतेति । सम्यग्गृहीतो दुष्टानां पक्षोऽङ्गीकारो यैः । खिस्वित्यनेन त्यागानर्हत्वं व्य-
ज्यते । तेन चोपदेशानर्हत्वम् । पक्षे झटिति निष्कासनानर्हश्यामपक्षवन्त इत्यर्थः । ल-
घवो नीचाः । पक्षेऽल्पपरिमाणवन्त इत्यर्थः । परान्भेदयन्ति ते । अन्येषां परस्परभेदज-
ननेन कलहप्रवर्तका इत्यर्थः । पक्षे इतरच्छेदकारकाः । तीक्ष्णाः । क्रूरकर्माण इत्यर्थः ।
पक्षे यथाश्रुतम् । पुरुषा अपि बाणा अपि गुणच्युताः साधुत्वादिगुणहीनाः । पक्षे गुणो
ज्या । कस्य न भयाय । अपि तु सर्वस्य भयायेति भावः । एवं चैतादृशपुरुषसंगतिकर-
एवं चेत णमनुचितमिति व्यज्यते ॥