This page has not been fully proofread.

आर्यासप्तशती ।
 
२१७
 
प्राग्वत् । एवं च सपत्नीसमक्ष कृतापराघस्यातिदुःखदत्वमिति भावः । अथवा सखीना-

मपि । अपिर्नायिकां समुच्चिनोति । मन्युनिमित्ते मयैव विहिते मम वक्षःस्थल एव न

पतितेति काकुः । स्थल एवेयनेनात्यन्तसरलत्वं व्यज्यत इत्यर्थः । एवं च मदङ्गनातुल्या

नान्याङ्गनेति ध्वन्यते ॥
 

 
काचित्कांचिद्वक्ति-
-
 
सुभग व्यजनविचालनशिथिलभुजाभूदियं वयस्यापि ।

उद्वर्तनं न सख्याः समाप्यते किंचिदपगच्छ ॥ ६६० ॥
 

 
सुभगेति । हे सुभग । एतादृशाङ्गनासमासक्तिमत्त्वादिति भावः । इयं वयस्यापि ।

एवं च दास्यादेः का वार्तेति भावः । व्यजनस्य विशेषचालने शिथिलहस्ताभूत् । एवं

च शनैर्व्यजनचालने न किमपि भवतीति भावः । सख्या उद्वर्तनं न समाप्यते । सात्त्वि-

कभावरूपस्वेदातिशयादिति भावः । किंचिदितोऽपसर । किंचिदित्यनेन दूरगमने दुःखं

सख्या भविष्यतीति ध्वन्यते । एवं चेयमत्यन्तं त्वय्यासक्तेति ॥
 

 
नायिकासखी नायकं वक्ति-
-
 
सत्रीडा नखरदनार्पणेषु कुपिता प्रगाढमचिरोढा ।
 

बहुयाच्या चरणग्रहसाध्या रोषेण जातेयम् ॥ ६६१ ॥
 

 
सब्रीडेति । सलजा प्रगाढं नखक्षतदन्तक्षतेषु । कृतेष्वित्यर्थः । कुपितेयं नवोढा ।

एवं च नखक्षतादिना कोपौचित्यं ध्वन्यते । रोषेण । त्वदीयेनेत्यर्थः । बहुचाटवचनप्रणि-

पातसमाधेया जाता । एवं च नवोढात्वेन दन्तक्षताद्यसहनेन कुपितायां नायिकायां तव

क्रोधकरणमनुचितमिति भावः । एवं चेदानीं चाटुवचनादिनास्याः कोपमपनय त्वमिति

च्यज्यते । तेन च तवैवायमपराध इति ॥
 

 
कश्चित्कंचिद्वक्ति
 
--
 
सुगृहीतमलिनपक्षा लघवः परभेदिनः परं तीक्ष्णाः ।
 

पुरुषा अपि विशिखा अपि गुणच्युताः कस्य न भयाय ॥६६२॥
 

 
सुगृहीतेति । सम्यग्गृहीतो दुष्टानां पक्षोऽङ्गीकारो यैः । खित्यनेन त्यागानर्हत्वं व्य-

ज्यते । तेन चोपदेशानर्हत्वम् । पक्षे झटिति निष्कासनानर्हश्यामपक्षवन्त इत्यर्थः । ल-

घवो नीचाः । पक्षेऽल्पपरिमाणवन्त इत्यर्थः । परान्भेदयन्ति ते । अन्येषां परस्परभेदज-

ननेन कलहप्रवर्तका इत्यर्थः । पक्षे इतरच्छेदकारकाः । तीक्ष्णाः । क्रूरकर्माण इत्यर्थः ।

पक्षे यथाश्रुतम् । पुरुषा अपि बाणा अपि गुणच्युताः साधुत्वादिगुणहीनाः । पक्षे गुणो

ज्या । कस्य न भयाय । अपि तु सर्वस्य भयायेति भावः । एवं चैतादृशपुरुषसंगतिकर-

एवं चेत
णमनुचित मिति व्यज्यते ॥
 
Sri Gurgeshwari Digital Foundation