This page has not been fully proofread.

२१६
 
काव्यमाला ।
 
रियमत्यन्तदीर्घा नैकाकितयातिवाहयितुं शक्येत्यतः संयोजयान्यनायकेन मामिति ध्व-

न्यते । यद्वा तुषारदिवस इवावधिदिवसोऽवसाने कदर्थयति । एवं चैतावत्कालं मया

प्राणा निरुद्ध्य स्थापिताः, इदानीं दयितानागमननिर्णये नैते मया निरोद्धुं शक्या अत ए-

तद्रक्षणं यथा भवति तथा यतस्वेति सखीं प्रत्युक्तिः । एवं चाग्रेऽन्यादृशाचरणे नाहं भ-

वत्या निषेधनीयेति व्यज्यते ॥
 

 
दूती नायिकां वक्ति
 
-
 
-
 
सुरभवने तरुणाभ्यां परस्पराकृष्टदृष्टिहृदयाभ्याम् ।

देवार्चनार्थमुद्यतमन्योन्यस्यार्पितं कुसुमम् ॥ ६१७ ॥
 

 
सुरेति । परस्पराकृष्टदृष्टिचित्ताभ्याम् । 'चक्षूरागः प्रथमं तदनु चित्तासङ्गः' इत्युक्त-

त्वात्प्रथमं दृष्ट्युपादानम्। तरुणाभ्यां देवालये देवपूजार्थमुद्यतं कुसुमं परस्परस्यार्पितम् ।

सुरभवन इत्यनेनावश्यकधर्माधर्मं विवेककरणौचित्यमावेद्यते । जनसंमर्दो वा । तेन च

तदगणनेन साहसातिशयः । देवार्चनार्थमुद्यतमित्यनेन मनुष्यादेर्दातुमयुक्तमित्यावेद्यते ।

तेन च परलोकभ्रंशभीतिशून्यत्वम् । कुसुममित्येकवचनेन बहूनां कुसुमानां सत्त्वेऽन्ये -

नापि देवार्चनस्य संपादयितुं शक्यतया न तथा दोषः, तदभावे चैतादृशाचरणेऽत्यन्तम-

ज्ञवं व्यज्यते । तेन च प्रीत्यतिशयः । एकवचनम
विवक्षितमिति ऋजवः । एवं चैतादृशी

रीतिः, अतस्त्वयापि भीतिमुत्सृज्य यथेष्टाचरणं विधेयमिति ध्वन्यते ॥

 
संजातोऽयं संकेतकाल इति काचित्कांचिद्वक्ति-
DA
 
-
 
सायं कुशेशयान्तर्मधुपानां निर्यतां नादः ।

मित्रव्यसनविषण्णैः कमलैराकन्द इव मुक्तः ॥ ६९८ ॥

 
सायमिति । सायं निर्गच्छताम् । भाविकमलसंकोचभियेति भावः । मधुपानाम् ।

एवं चोन्मत्तत्वं ध्वन्यते । कमलान्तर्नादो मित्रस्य सूर्यस्य । विकासकत्वान्मित्रत्वम् ।

व्यसनमतस्तेन खिन्नैः कमलैराक्रन्द इव मुक्तः । एवं च नायकः संकेतोत्सवेन वयस्यैः

सह मधु पीत्वा कामबाधाव्यसनमनुप्राप्त आस्ते, इदं तु मित्रदुःखदुःखितैस्तद्वयस्यैरेवा-

भिहितम्, अतस्त्वरय संकेतकाल एव झटिति तत्र गन्तुमिति व्यज्यते ॥

 
नायको वक्ति-
-
 
सुमहति मन्युनिमित्ते मयैव विहितेऽपि वेपमानोरुः ।
 

न सखीनामपि रुदती ममैव वक्षःस्थले पतिता ॥ ६९९ ॥

 
सुमहतीति । मयैव । एवं च नान्यस्यापराध इति व्यज्यते । अत्यन्तमहत्तरे मन्यु-

कारणे विहितेऽपि कम्पमानोरू रुदती ममैव हृदयस्थले । स्थलपदं विशालतां गमयति ।

यद्वा कृत्रिममपि समाधानं न कृतं मयेति व्यज्यते । सुप्ता । न सखीनामपि । सखीपदं

वक्षःस्थलखापयोग्यतां गमयति । अपिस्तस्मिन्नावश्यकतामावेदयति । यद्वा न सखीना-

मपि । सपत्नीनामित्यर्थः । समक्षमित्यध्याहारः । मयैव मन्युनिमित्ते विहितेऽपीत्यादि
Curgeshwari Dighat