2023-03-25 15:07:51 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
काचित्कांचिद्वक्ति--
सदनादपैति दयितो हसति सखी विशतिघधरणिमिव बाला ।
ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदेति ॥ ६१५३ ॥
सदनादिति । मुग्धे, प्रसीदेति शुके जल्पति सति प्रियो गृहाद्गच्छति । गृहिणीकोक्रो-
धभयादिति भावः । सखी हसति । कथमिदानीं मत्सख्यधीनतामापन्न इति धियेति
भावः । तोषादिति वा भावः । बाला । एवं च लज्जायोग्यत्वं व्यज्यते । धरणिमिव
विशति । लज्जावशादिति भावः । सपत्नी ज्वलति । द्वेषवशान्मानवशाद्वेति भावः ।
एवं चैतादृशाचरणमत्यन्तं सम्यगिति व्यज्यते ॥
नायको वक्ति--
संकुचिताङ्गीं द्विगुणांशुकां मनोमात्रविस्फुरन्मदनाम् ।
दयितां भजामि मुग्धामिव तुहिन तव प्रसादेन ॥ ६५४ ॥
संकुचितेति । हे हिम, तव प्रसादेन संकुचिताङ्गीं द्विगुणवस्त्रां चित्तमात्रे विस्फुरन्म-
दनो यस्यास्तां दयितां मुग्धामिव भजामि । एवं च यद्वशात्प्रौढापि नवोढेव भवतीति
व्यज्यते । तेन च त्वत्तुल्यो नान्यः कश्चिन्मदुपकर्तेति । नवोढाप्यङ्गसंकोचादिमती भवति ॥
दूती नायिकां वक्ति--
सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य ।
वाडवशिखेव सिन्धोर्न मनागप्यार्द्रतां भजसि ॥ ६५९५ ॥
सखीति । हे सखि । एवं च हितोपदेशार्हत्वं ध्वन्यते । तस्य महति प्रशस्ते । एवं
चान्यकृतापराधसंगोपनकारित्वं द्योत्यते । पक्षे गभीरे । रसमये प्रीतिप्रचुरे । पक्षे रसो
जलम् । आशयेऽन्तःकरणे । पक्षेऽभ्यन्तरे । सिन्धोराशये वडवार्चिरिव निरन्तरं लग्मैनैव
वसन्ती मनागध्प्यार्द्रतां स्निग्धताम् । पक्षे सजलतां न भजसि । एवं च स तु लग्त्वय्यत्य-
न्तमासक्तः, त्वं तु रूक्षतामेव भजसीत्यनुचितं तवेदमिति ध्वन्यते ॥
नायिका दूततीं वक्ति--
सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने ।
वन्ध्योऽवधिवासर इव तुषारदिवसः कदर्थयति ॥ ६१५६॥
सखीति । हे सखि । एवं चैतादृशसंबुद्ध्या तुष्टा झटिति कार्ययं करिष्यतीत्यतो दूती-
पदानुपादानम् । सूर्योद्गमनप्रभृति सुखमाच्छाद्य। 'मिहिरोदयसमयप्रमोदम्' इति क्वचि-
त्पाठः । वन्ध्यो निष्फलः । नायकागमनाभावात् । अवधिवासर इव सोऽयं हिमदिवसः
समाप्तौ कदर्थयति । यथावधिदिवसे प्रातरद्यायास्यति दयित इत्यानन्दः सायं च प्रियत-
मानागमे प्रातःकालीनसुखोपमर्दैनात्यन्तं दुःखं भवति तथा हिमदिवसे प्रातः सूर्यरश्मिभिः
संजातं सुखं दूरीकृत्य सायंतनसमये शीतदुःखमत्यन्तं भवतीति भावः । एवं च रात्रि-
सदनादपैति दयितो हसति सखी विशति
ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदेति ॥ ६
सदनादिति । मुग्धे, प्रसीदेति शुके जल्पति सति प्रियो गृहाद्गच्छति । गृहिणी
धभयादिति भावः । सखी हसति । कथमिदानीं मत्सख्यधीनतामापन्न इति धियेति
भावः । तोषादिति वा भावः । बाला । एवं च लज्जायोग्यत्वं व्यज्यते । धरणिमिव
विशति । लज्जावशादिति भावः । सपत्नी ज्वलति । द्वेषवशान्मानवशाद्वेति भावः ।
एवं चैतादृशाचरणमत्यन्तं सम्यगिति व्यज्यते ॥
नायको वक्ति--
संकुचिताङ्गीं द्विगुणांशुकां मनोमात्रविस्फुरन्मदनाम् ।
दयितां भजामि मुग्धामिव तुहिन तव प्रसादेन ॥ ६५४ ॥
संकुचितेति । हे हिम, तव प्रसादेन संकुचिताङ्गीं द्विगुणवस्त्रां चित्तमात्रे विस्फुरन्म-
दनो यस्यास्तां दयितां मुग्धामिव भजामि । एवं च यद्वशात्प्रौढापि नवोढेव भवतीति
व्यज्यते । तेन च त्वत्तुल्यो नान्यः कश्चिन्मदुपकर्तेति । नवोढाप्यङ्गसंकोचादिमती भवति ॥
दूती नायिकां वक्ति--
सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य ।
वाडवशिखेव सिन्धोर्न मनागप्यार्द्रतां भजसि ॥ ६५
सखीति । हे सखि । एवं च हितोपदेशार्हत्वं ध्वन्यते । तस्य महति प्रशस्ते । एवं
चान्यकृतापराधसंगोपनकारित्वं द्योत्यते । पक्षे गभीरे । रसमये प्रीतिप्रचुरे । पक्षे रसो
जलम् । आशयेऽन्तःकरणे । पक्षेऽभ्यन्तरे । सिन्धोराशये वडवार्चिरिव निरन्तरं लग्
वसन्ती मनाग
न्तमासक्तः, त्वं तु रूक्षतामेव भजसीत्यनुचितं तवेदमिति ध्वन्यते ॥
नायिका दू
सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने ।
वन्ध्योऽवधिवासर इव तुषारदिवसः कदर्थयति ॥ ६
सखीति । हे सखि । एवं चैतादृशसंबुद्ध्या तुष्टा झटिति कार्