This page has not been fully proofread.

आर्यासप्तशती ।
 
काचित्कांचिद्वक्ति-
-
 
सदनादपैति दयितो हसति सखी विशति घरणिमिव बाला ।

ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदेति ॥ ६१३ ॥

 
सदनादिति । मुग्धे, प्रसीदेति शुके जल्पति सति प्रियो गृहाद्गच्छति । गृहिणीको-

धभयादिति भावः । सखी हसति । कथमिदानीं मत्सख्यधीनतामापन्न इति धियेति

भावः । तोषादिति वा भावः । बाला । एवं च लज्जायोग्यत्वं व्यज्यते । धरणिमिव

विशति । लज्जावशादिति भावः । सपत्नी ज्वलति । द्वेषवशान्मानवशाद्वेति भावः ।

एवं चैतादृशाचरणमत्यन्तं सम्यगिति व्यज्यते ॥
 

 
नायको वक्ति-
२१५
 
-
 
संकुचिताङ्गीं द्विगुणांशुकां मनोमात्रविस्फुरन्मदनाम् ।
 

दयितां भजामि मुग्धामिव तुहिन तव प्रसादेन ॥ ६५४ ॥

 
संकुचितेति । हे हिम, तव प्रसादेन संकुचिताङ्गीं द्विगुणवस्त्रां चित्तमात्रे विस्फुरन्म-

दनो यस्यास्तां दयितां मुग्धामिव भजामि । एवं च यद्वशात्प्रौढापि नवोढेव भवतीति

व्यज्यते । तेन च त्वत्तुल्यो नान्यः कश्चिन्मदुपकर्तेति । नवोढाप्यङ्गसंकोचादिमती भवति ॥

 
दूती नायिकां वक्ति-
-
 
सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य ।
 

वाडवशिखेव सिन्धोर्न मनागप्यार्द्रतां भजसि ॥ ६५९ ॥
 

 
सखीति । हे सखि । एवं च हितोपदेशार्हत्वं ध्वन्यते । तस्य महति प्रशस्ते । एवं

चान्यकृतापराधसंगोपनकारित्वं द्योत्यते । पक्षे गभीरे । रसमये प्रीतिप्रचुरे । पक्षे रसो

जलम् । आशयेऽन्तःकरणे । पक्षेऽभ्यन्तरे । सिन्धोराशये वडवाचिरिव निरन्तरं लग्मैव

वसन्ती मनागध्यार्द्रतां स्निग्धताम् । पक्षे सजलतां न भजसि । एवं च स तु लग्यत्य-

न्तमासक्तः, त्वं तु रूक्षतामेव भजसीत्यनुचितं तवेदमिति ध्वन्यते ॥
 

 
नायिका दूत वक्ति-
-
 
सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने ।

वन्ध्योऽवधिवासर इव तुषारदिवसः कदर्थयति ॥ ६१६॥

 
सखीति । हे सखि । एवं चैतादृशसंबुद्ध्या तुष्टा झटिति कार्य करिष्यतीत्यतो दूती-

पदानुपादानम् । सूर्योद्गमनप्रभृति सुखमाच्छाद्य। 'मिहिरोदयसमयप्रमोदम्' इति क्वचि-

त्पाठः । वन्ध्यो निष्फलः । नायकागमनाभावात् । अवधिवासर इव सोऽयं हिमदिवसः

समाप्तौ कदर्थयति । यथावधिदिवसे प्रातरद्यायास्यति दयित इत्यानन्दः सायं च प्रियत-

मानागमे प्रातःकालीनसुखोपमर्दैनात्यन्तं दुःखं भवति तथा हिमदिवसे प्रातः सूर्यरश्मिभिः

संजातं सुखं दूरीकृत्य सायंतनसमये शीतदुःखमत्यन्तं भवतीति भावः । एवं च रात्रि-
Sri Gurgeshun Dignal Flundation