This page has been fully proofread once and needs a second look.

सेति । अत्र संबुद्धिपदानुपादानं दूतीगतक्रोधमावेदयति । स च नायकापराधम् ।
सा मत्सखी सर्व प्रकारेणैव रक्तानुरक्ता। त्वयीति भावः । एवकारेण सर्वथान्यथा नाशङ्क-
नीयमिति व्यज्यते । पक्षे सर्वतो रक्तरूपवती । रागं प्रीतिम् । पक्षे लौहित्यम् । गुञ्जेव मुखे
न वहति । वचनकुशलस्य । एवं च परप्रतारणनिपुणत्वमावेद्यते । पक्षे शब्दोच्चारणनिपुणस्य
तव शुकस्येवास्ये केवलं रागः प्रीतिः । पक्षे लौहित्यम् । एवं च सा सर्वात्मना त्वय्यनु-
रागवती परंतु केवलं न मुखेनानुरागप्रकटनं करोतीति तादृशी न काचिदन्या सरला ।
त्वं तु केवलं मुखेनैव प्रीतिमाविष्करोषि, अतस्तु शठ इति व्यज्यते । तेन च कथं
त्वद्वचनं मया विश्वसितव्यमिति ॥
 
काचित्कांचिच्छिक्षयति--
 
सायं कान्तभुजान्तरपतिता रतिनीतसकलरजनीका ।
उपसि ददती प्रदीपं सखीभिरुपहस्यते बाला ॥ ६५० ॥
 
सायमिति । सायं संध्यासमये कान्तस्य भुजयोर्मध्ये पतिता । मध्यपदेन निःसारणा-
नर्हत्वं व्यज्यते । पतितेत्यनेन तस्या नापराध इति ध्वन्यते । रत्या नीता निखिला रा.-
त्रिर्यया । एवं च कान्तभुजान्तरपतने रतेर्निवारणाशक्यतया तस्या नापराध इति भावः ।
प्रातः प्रदीपं ददती । रात्र्यपगमाज्ञानादिति भावः । उपसर्गेण बहलतैलादिदानेनेदानीमेव
सायंतनसमयः संवृत्त इति ज्ञानवत्त्वमावेद्यते । सा बाला सखीभिरुपहस्यते । एवं च
गृहकृत्यं यामिनीप्रथमयाम एव विधाय पश्चात्कान्तसदनं प्रविशेति ध्वन्यते ॥
 
नायको दूत वक्ति--
 
सा तीक्ष्णमानदहना महतः स्नेहस्य दुर्लभः पाकः ।
त्वां दर्वीमिव दूति प्रयासयन्नस्मि विश्वस्तः ॥ ६५१ ॥
 
सेति । हे दूति, स तीक्ष्णो मानरूपो वह्निर्यस्या एतादृशी बहुलस्य स्नेहस्य प्रीतेः ।
अथ च तैलस्य । पाकः परिपाको दुर्लभो भवति । दर्वीमिव त्वां प्रयासयन् गमनागमन-
व्यापारशालिनीं कुर्वन् । पक्षे आलोडयन् । विश्वासं प्राप्तोऽस्मि । अत्यन्तमानशालिन्या-
स्तस्याः स्नेहावस्थितिर्दुर्लभा परंतु त्वदीयपरिश्रमेण सा भवित्रीति भावः । एवं च
त्त्वदेकसाध्या तत्प्रीत्यवस्थितिरिति व्यज्यते । तीक्ष्णाग्नौ बहुतरस्नेहपरिपाकोऽपि दर्वी-
चालनं विना दुर्लभो भवति ॥
 
काचित्कांचिदन्योक्त्या वक्ति--
 
स्नेहक्षतिजिंर्जिगीषा समरः प्राणव्ययावधिः करिणाम् ।
न वितनुते कमनर्थं दन्तिनि तव यौवनोद्भेदः ॥ ६५२ ॥
 
स्नेहेति । हे दन्तिनि, तव तारुण्योद्गमः प्रीतिनाशः, जेतुमिच्छा, प्राणनाशावधिः
सङ्ग्रामः, इति कमनर्थेथं गजानां न वितनुते । अपि तु सर्वम् । एवं च त्वन्निमित्तं तरु-
गाणानां परस्परं स्नेहनाशादि भवतीति व्यज्यते । तेन च त्वमत्यन्तसुभगेति ॥