This page has been fully proofread once and needs a second look.

बहुनायकावल्लभं स्वयं वाञ्छन्तीं कांचित्काचिद्भङ्ग्यन्तरेण वक्ति--
 
सुलभेषु कमलकेसरकेतकमाकन्दकुन्दकुसुमेषु ।
वाञ्छति मनोरथान्धा मधुपी स्मरधनुषि गुणाभावम् ॥ ६४६ ॥
 
सुलभेष्विति । कमलप्रभृतीनि यानि कुसुमानि तेष्वनायासलभ्येषु सत्सु मनोरथेनान्धा
मधुपी मदनधनुषि मौर्वी भावम् । अथ चाप्रधानभावम् । वाञ्छति । कुसुमपदेन परि-
मले बहुलत्वं व्यज्यते । मधुपीपदेनाज्ञत्वं द्योत्यते । मदनधनुषीत्यनेन मदनस्याप्येतत्क-
रणक एव जगज्जय इति प्रतिपादनेन लावण्यपुरुषार्थातिशयशालित्वं नायके व्यज्यते ।
तेन चानेककामिनीवल्लभत्वं द्योत्यते । एवं च सुलभसमीचीनपुरुषान्विहाय तादृशपुरुषे
समासक्तौ क्रियमाणायामेतस्यातिगुणवत्कामिनीनां बाहुल्यात्तन्मध्ये एतस्या अप्रधानभाव
एव स्यादिति व्यज्यते ॥
 
काचित्कांचिद्वक्ति--
 
सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता ।
बालायाः पीडायां निदानिते जागरे वैद्यैः ॥ ६४७ ॥
 
सेति । वैद्यैर्बालाया: पीडायां जागरे निदानिते । एतस्याः पीडायां जागरणमेव नि-
दानमित्यगदंकारैर्निश्चित्योक्त इत्यर्थः । सा बाला लज्जिता । सुरतादिक्रीडाज्ञानादिति
भावः । सपत्नी कुपिता । कथं प्रियतमोऽस्यामेतादृशासक्तिमान्संवृत्त इति धियेति भावः ।
प्रियो भीतः । मत्कृतापराधज्ञानं गृहिण्या जातमिति धियेति भावः । सखी । अर्थाद्वा-
लायाः । सुखिता । खसखीसौभाग्यप्राकट्यादिति भावः । एवं च भर्तृसमीपगमने सम्य-
गेव भवतीति व्यज्यते ॥
 
विदेशादागते प्रेयसि मानकारिणीं नायिकां सखी समुपदिशति--
 
सुचिरागतस्य संवाहनच्छलेनाङ्गमङ्गमालिङ्गय ।
पुष्यति च मानचर्चा गृहिणी सफलयति चोत्कलिकाम् ॥ ६४८ ॥
 
सुचिरेति । गृहिणी अत्यन्तचिरकालगतस्य । दयितस्येति भावः । संवाहन मिषेणा-
ङ्गमङ्गमालिङ्गय मानम् । अवधिदिवसानागमनसंजात मिति भावः । पुष्यति च । 'मानग-
र्वम्' इति पाठे सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावः । गर्ने खोत्कर्षाभिमानं पु-
घ्यति च । उत्कण्ठां च सफलयति । सुचिरागतस्ये त्यनेन संवाहनौत्कण्ठ्यौचित्यमावेद्यते ।
गृहिणीपदेनान्यासामीदृशी रीतिरिति व्यज्यते । एवं च या गृहिणी भवति तस्यास्त्वेता-
दृशी रीतिरत एतादृशानाचरणे तव गृहिणीलमेव न स्यादतो नायकसेवापुरःसरमेव माना-
दिकं विधेयमिति व्यज्यते । तेन च संवाहनच्छलेन मानसंगोपनमपि कर्ते शक्यं सरल-
वसंरक्षणं चेति ॥
 
नायिकादूती नायकं वक्ति--
 
सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति ।
वचनपटोस्तव रागः केवलमास्ये शुकस्येव ॥ ६४९ ॥