This page has not been fully proofread.

२१२
 
काव्यमाला ।
 
यथा संवाहयति, उपवीजयति । उपसर्गेण समीरणे मन्दत्वमावेद्यते । तेन च स्वापे

सत्वरभवनयोग्यत्वम् । सदनभित्तिरन्ध्रे निवेशिता दृग्येन तस्य यूनः । एवं च स्पृहणी-

यत्वमावेद्यते । तथाश्वासनं भवति । एवं चैतादृशोपायनिबन्धनैस्तत्स्वापसंपादनं मत्सवि-

धागमनहेतुभूतमिति ज्ञानादिति भावः । एवं च स्त्रीणां विश्वासः केनापि न कार्य इति

व्यज्यते ॥
 

 
'कथमियं ममानादरं कुरुते' इति वादिनं कंचन वारवनितासखी वक्ति-
-
 
सत्यं स्वल्पगुणेषु स्तब्धा सदृशे पुनर्भुजंगे सा ।
 

अर्पितकोटिः प्रणमति सुन्दर हरचापयष्टिरिव ॥ ६४३ ॥

 
सत्यमिति । हे सुन्दर । एवं चेतरगुणवत्ताभावो व्यज्यते । स्वल्पगुणेषु सा स्तब्धा ।

न नम्रेत्यर्थः । इदं सत्यम् । पक्षेऽल्पमौर्व्यामित्यर्थः । सदृशे तु । स्वगुणैरिति भावः ।

पक्षे महत्तरत्वादिति भावः । भुजंगे खिङ्गे । पक्षे सर्पे । अर्पितकोटि: । दत्तकोटिसं-

ख्याकवसुरित्यर्थः । पक्षे दत्ताग्रभागा । हरचापयष्टिरिव प्रणमति नमस्करोति । पक्षे.

ऽत्यन्तं नम्रीभवति । एवं च सामान्यवनितात्वेन द्रव्यमात्रेच्छयेयं स्वासदृशं नायकं न

भजतीति भावः । एवं च द्रव्यवत्तामात्रेण त्वया गर्वो न विधेय इति व्यज्यते ॥

 
नायिकासखी नायकं वक्ति-
-
 

 
सर्वसहां महीमिव विधाय तां बाष्पवारिभिः पूर्णाम् ।
 

भवनान्तरमयमधुना संक्रान्तस्ते गुरुः प्रेमा ॥ ६४४ ॥

 
सर्वेसहामिति । अत्र संबुद्धिपदानुपादानं क्रोधवत्तामावेदयति । सर्वेसहाम्। त्वत्कृत-

सर्वापराधसहनशीलामित्यर्थः । पक्षे तदभिधानाम् । बाष्पजलपरिपूर्णाम् । पक्षे जलपूर्णाम् ।

महीमिव तां विधाय तेऽयं गुरुः श्रेष्ठः । पक्षे बृहस्पतिः । प्रेमाधुना भवनान्तरम् । नायि

कान्तरमित्यर्थः । पक्षे राश्यन्तरमित्यर्थः । संक्रान्तः । एवं च त्वदीयसर्वापराधसहनशीलां

रुदती मेतामतिसरलां विहायान्यत्रासक्ति करोषीति त्वादृशोऽन्यो न दुष्टतर इति

व्यज्यते । तेन च त्वयेत्थं न विधेयमिति । बृहस्पतिचलने चातिवृष्टिर्भवतीति ज्योतिः-

शास्त्रसिद्धान्तः ॥
 
-
 
.
 

 
कश्चित्कंचिद्वक्ति-
-
 
संभवति न खलु रक्षा सरसानां प्रकृतिचपलचरितानाम् ।

अनुभवति हरशिरस्यपि भुजंगपरिशीलनं गङ्गा ॥ ६४५ ॥

 
संभवतीति । सरसानां शृङ्गाररसवतीनाम् । पक्षे रसो जलम् । स्वभावचचंलाच-

रणानाम् । पक्षे चरितं वर्त्म । रक्षणं न संभवति । कुत इत्यत आह - हरशिरस्यपि ।

किमुतान्यत्रेति भावः । गङ्गा । एवं चैतादृशाकर्तव्यता नोचितेति व्यज्यते । भुजंगपरि-

शीलनम् । अथ च खिङ्गसंभोगम् । अनुभवति । एवं चातिरक्षणादेः सत्त्वादेतस्याः

सङ्गः कथं भविष्यतीति मनसि न कापि चिन्ता त्वया विधेयेति व्यज्यते ॥