This page has not been fully proofread.

१४
 
काव्यमाला ।
 
ल्पयितुं वक्तुं कर्तुं वा । पक्षे दर्शयितुम् । सेनकुलतिलकभूपतिः सेतुकर्ता प्रवरसेन-

नामा राजा । पौर्णमासीप्रदोष एकः प्रभुः समर्थः । नान्य इत्यर्थः ।
 

 
काव्यस्याक्षरमैत्रीभाजो न च कर्कशा न च ग्राम्याः ।
 

 
शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥ ४० ॥
 

 
काव्यस्येति । अक्षराणां वर्णानां मैत्रीमेकवर्गपठितत्वादिरूपाम् । एकस्थानकत्वे

सत्येकप्रयत्नकत्वरूपां वा । भजति तस्य । एवं च बन्धविशेषशालित्वं व्यज्यते । पुरुष-

विशेषणमप्यक्षरमैत्रीभाज इति । काव्यस्य योजनाविशेषवच्छब्दार्थोभयस्य । अर्थबो-

धाय । कर्कशाः श्रुतिकटवः । तेषां रसापकर्षकत्वादिति भावः । पक्षे क्रूरमतयः ।

एवं च परोक्तिखण्डनमात्रनिपुणत्वं च व्यज्यते । न च ग्राम्या अविदग्धप्रयुक्ताः । एवं

च चारुत्वाभावो व्यज्यते । पक्षे ग्राममात्रवासिनः । एवं च काव्यवासनावासितान्तः-

करणत्वाभावो ध्वन्यते । शब्दा अपि पुरुषा अपि । किंतु साधव एव । व्याकरण-

सिद्धा एव असाधुत्वज्ञान स्यार्थ बोधप्रतिबन्ध कत्वात् । पक्षे निर्मलमतय एव । एवं

चार्थप्रतिबिम्बभवनयोग्यत्वं द्योत्यते । यद्वा काव्यार्थवासनाशालिन इत्यर्थः । एवं चा-

न्येषां काव्यबोधानर्हत्वमिति भावः ॥
 

 
वंशे घुण इव न विशति दोषो रसभाविते सतां मनसि ।

रसमपि तु न प्रतीच्छति बहुदोषः संनिपातीव ॥ ४१ ॥

वंश इति । वंशे वेणौ घुण इव कीट इव रसभाविते शृङ्गारादिभावनावति । पक्षे

`जलातिशयसंबन्धवति । औषधीद्रवलेपवतीति कश्चित् । सतां मत्सररहितानां सहृदयानां

वा मनसि । मनसीत्येकवचनेन समीचीनमनसामे कव्यसनशालित्वं ध्वन्यते । दोषो न

विशति । एवं च सुतरामवस्थित्यभावो द्योत्यते । बहुदोषो दोषैकदृक् । पक्षे 'क्षणे

दाहः क्षणे शीतमस्थिसंधिशिरोरुजः' इत्यादिबहूपद्रववान् । संनिपातीव युगपत्प्रकुपित-

वातपित्तादिमान् । रसमपि शृङ्गारादिकमपि । एवं चावश्येच्छायोग्यत्वं व्यज्यते । प

मृगाङ्कादिकमपि । एवं च का वार्ता क्काथादेरिति भावः । न प्रतीच्छति न गृह्णातीति

किं वक्तव्यमिति भावः ॥
 

 

 

 
विगुणोऽपि काव्यबन्धः साधूनामाननं गतः स्वदते ।

फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति ॥ ४२ ॥
 

 
विगुण इति । विगुणोऽपि ये ये काव्ये गुणास्तदन्यतमशून्योऽपि । काव्यबन्धः । अत्र

बन्धपदमधिकमाभाति । यद्वा बन्धो रचनामात्रम् । साधूनाम् । एवं च गुणवत्तासं-

पादनकर्तृत्वं ध्वन्यते । स्वदते सुखसंपादको भवति । सुवंशैः सरलवेणुभिरनूद्यमानः ।

एवं चानुवादसंपादनेऽपि सुजनदुर्जनयोरन्तरं भवतीति भावः । फूत्कारोऽपि । एवं च

सुखाजनकत्वं ध्वन्यते । श्रुतिं हरति श्रवणसुखसंपादको भवति ॥