2023-03-13 02:45:56 by Pathan Vali Khan
This page has not been fully proofread.
२११
तदीयवेदना न ज्ञायतेऽस्माभिर्यामिन्यां तु तदीयवेदना विज्ञायत इति व्यज्यते । हिमव-
त्पृष्ठोपमानेन तस्याः कोमलतल्पोऽपि कार्कश्यमविष्करोतीति व्यज्यते ॥
नायिकासखी नायकं वक्ति-
सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।
सुन्दर सखी दिवसकरबिम्बे तुहिनांशुरेखेव ॥ ६३९ ॥
सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं ध्वन्यते । यद्वा सुन्दरसखीत्येकं पदम्
नीरसे । रसः प्रीतिः । पक्षे तेजोमयत्वान्नीरसत्वम् । तव हृदि सा सुन्दरी सूर्यबिम्बे
चन्द्ररेखेव प्रविशति, निर्याति, स्थैर्य न लभते । एवं चास्थिरप्रकृतिस्त्वमेवासीति
व्यज्यते ॥
काचित्कांचिदन्योक्त्या वक्ति
सुकुमारत्वं कान्तिर्नितान्तसरसत्वमान्तराश्च गुणाः ।
किं नाम नेन्दुलेखे शशग्रहेणैव तव कथितम् ॥ ६४० ॥
सुकुमारत्वमिति । हे चन्द्ररेखे, सौकुमार्य शोभात्यन्तसरसत्वमाभ्यन्तराश्च गुणा इति
ते शशाङ्गीकारेणैव । अथ च शशजातीय पुरुषासक्त्या नाम निश्चयेन किं न कथितम् ।
अपि तु सर्वे कथितमित्यर्थः । एवं च यदि त्वयि सौकुमार्यादयो गुणाः स्थुस्तदा कथमी-
दृशे पुरुषे समासक्तिः कृता स्यात्, अतस्त्वयि गुणा न सन्तीति व्यज्यते । अथवा शशम्र-
हेण । एवं चैतादृशपुरुषसंबन्धात्तव सर्वे गुणादिकमनर्थकमेव संवृत्तमिति योयते । यद्वा
सौकुमार्यादि गुणवत्तया पद्मिनीत्वमावेद्यते । पद्मिनीनायिकायाः शशजातीयपुरुषयोग
एव समुचित इति कामशास्त्रम् ॥
इतरगुणापेक्षया सद्वृत्तमेवाधिकतरमिति कश्चित्कंचिद्भङ्गयन्तरेण वक्ति-
सौरभ्यमात्र मनसामास्तां मलयद्रुमस्य न विशेषः ।
धर्मार्थिनां तथापि स मृग्यः पूजार्थमश्वत्थः ॥ ६४१ ॥
सौरम्येति । सौगन्ध्यमात्रेच्छावतां मलयाचलवृक्षेषु । एवं च सर्वत्र सौगन्ध्यसत्त्व-
मिति भावः । न विशेषः । खेप्सितसौगन्ध्यस्य सर्वत्र सत्त्वादिति भावः । धर्मेच्छावतां
तथापि सौगन्ध्यरूपसाधारणधर्मवत्त्वेऽपि पूजार्थमश्वत्थो गवेष्यः । एवं च पाण्डित्यादि-
गुणस्य सर्वत्रैकरूपसत्त्वेऽपि सद्भिः सद्वृत्तवत एवादरः क्रियत इति व्यज्यते ॥
कश्चित्कंचिद्वक्ति-
संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी ।
गृहवृति विवर निवेशितदृशस्तथा श्वासनं यूनः ॥ ६४२ ॥
संवाहयतीति । गृहिणी । एवं च स्वाधीनत्वमावेयते । शयानं गृहपतिम्, न तु प्रियं
DF
Sei Gargeshwari Digital Foundation