2023-03-25 11:50:05 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
यते मयेति ध्वन्यते । एवं च सपत्नीसत्त्वमात्रमप्येतादृशदुःखदं किं पुनस्तत्प्राधान्यमिति
व्यज्यते ॥
काचित्कांचिद्वक्ति--
सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् ।
धवलनखाङ्कं निजवपुरकुङ्कुमार्द्रं न दर्शयति ॥ ६३६ ॥
सुचिरेति । निशि भुक्ता चतुरेयं गृहिणी अत्यन्तचिरकालेनागते । प्रिय इति भावः ।
प्रातःकाले श्वेतनखचिह्नं स्खवशरीरं कुङ्ककुमार्द्रताभाववन्न दर्शयति । कुङ्ककुमार्द्रमेव दर्शयती-
त्यर्थः । सुचिरायात इत्यनेन नायिकायामन्यत्रासक्तिसंपादनयोग्यत्वं नायके च मन्मथवि-
हृह्वलतया सम्यङ्गिनिरीक्षणाभावेऽपि रतकारित्वमावेद्यते । गृहिणीत्यनेन स्वातन्त्र्यं तेन चा.
न्यकर्तृकनिवारणानर्हत्वं व्यज्यते । निशीत्यनेन दर्शनानर्हत्वं नखक्षतेषु ध्वन्यते । दिन-
मुख इत्यनेन नखक्षतेषु दर्शनयोग्यत्वं द्योत्यते । विदग्धपदेन वञ्चनानिपुणत्वं व्यज्यते ।
धवलपदेन नखक्षतेषु प्राचीनत्वं धवलनखाङ्कमित्यनेन यथास्थितशरीरस्य दर्शनायोग्यत्वं
ध्वन्यते । अकुङ्कुमार्द्रेरं न दर्शयतीत्यनेन प्राचीननखक्षतेष्वपि नवीनत्वभ्रमोदयेन प्राक्कृता-
नुचिताचरणगोपनमभिव्यज्यते । एवं चैवंविधचतुरयैवैतादृशाचरणं कर्तव्यं नान्ययेति
ध्वन्यते । तेन च न त्वयेति । यद्वैतादृशरीत्यापि नायकः प्रतारयितुं शक्यः, अतो.
नखक्षतादिभीतिमुत्सृज्य मदुक्तमङ्गीकुर्विति दूती नायिकां वक्ति ॥
नायिका नायकं वक्ति--
स्तनजघनोरुप्रणयी गाढं लग्नो निवेशितस्नेहः ।
प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ॥ ६३७ ॥
स्तनेति । हे प्रिय, स्तनजघनोरुप्रीतिमान् । पक्षे कामतन्त्रे एतत्स्थानेषु नखक्षतदा-
नाद्यभिधानात् । अत्यर्थथं लग्नः । हठालिङ्गनप्रवण इत्यर्थः । पक्षेऽत्यन्तं निखात इत्यर्थः ।
निवेशितस्नेहः कृतप्रीतिः । पक्षे दत्ततैलः । पीडोपशमार्थमिति भावः । एतादृशस्त्वं
नखाङ्क इव यद्विरज्यसे विरक्तो भवसि । पक्षे रुधिरशून्यः । इयं कालपरिणतिः । एवं
चेदानींतन कालस्यैवायमपराधो न तवेति भावः । नखाङ्कोऽपि बहुकालेन शुष्को भवति ।
यद्वा यद्विरज्यसे इयं कालपरिणतिरिति काक्कावा चिरकालसंगतेरिदं फलमित्यर्थः । एवं च
यथा यथा चिरकालीनसंगतिस्तथा तथा सतां प्रीत्युत्कर्षः खलानां पुनरन्यथाभाव
इति भावः ॥
नायिकादूती नायकं वक्ति--
सा विच्छाया निशि निशि सुतनुर्बहुतुहिनशीतले तल्पे ।
ज्वलति त्वदीयविरहादौषधिरिव हिमवतः पृष्ठे ॥ ६३८ ॥
सेति । विच्छायान्यादृशाङ्गकान्तिमती । पक्षे छायाशून्या । प्रकाशशालित्वादिति
भावः ।लत्वद्विरहात्सा सुतनू रात्रौ रात्रौ बहुहिमतुल्यशैत्यशालिनि । पक्षे बहु तुहिनेन
व्यज्यते ॥
काचित्कांचिद्वक्ति--
सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् ।
धवलनखाङ्कं निजवपुरकुङ्कुमार्द्रं न दर्शयति ॥ ६३६ ॥
सुचिरेति । निशि भुक्ता चतुरेयं गृहिणी अत्यन्तचिरकालेनागते । प्रिय इति भावः ।
प्रातःकाले श्वेतनखचिह्नं स्
त्यर्थः । सुचिरायात इत्यनेन नायिकायामन्यत्रासक्तिसंपादनयोग्यत्वं नायके च मन्मथवि-
न्यकर्तृकनिवारणानर्हत्वं व्यज्यते । निशीत्यनेन दर्शनानर्हत्वं नखक्षतेषु ध्वन्यते । दिन-
मुख इत्यनेन नखक्षतेषु दर्शनयोग्यत्वं द्योत्यते । विदग्धपदेन वञ्चनानिपुणत्वं व्यज्यते ।
धवलपदेन नखक्षतेषु प्राचीनत्वं धवलनखाङ्कमित्यनेन यथास्थितशरीरस्य दर्शनायोग्यत्वं
ध्वन्यते । अकुङ्कुमार्द्
नुचिताचरणगोपनमभिव्यज्यते । एवं चैवंविधचतुरयैवैतादृशाचरणं कर्तव्यं नान्ययेति
ध्वन्यते । तेन च न त्वयेति । यद्वैतादृशरीत्यापि नायकः प्रतारयितुं शक्यः, अतो.
नखक्षतादिभीतिमुत्सृज्य मदुक्तमङ्गीकुर्विति दूती नायिकां वक्ति ॥
नायिका नायकं वक्ति--
स्तनजघनोरुप्रणयी गाढं लग्नो निवेशितस्नेहः ।
प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ॥ ६३७ ॥
स्तनेति । हे प्रिय, स्तनजघनोरुप्रीतिमान् । पक्षे कामतन्त्रे एतत्स्थानेषु नखक्षतदा-
नाद्यभिधानात् । अत्यर्
निवेशितस्नेहः कृतप्रीतिः । पक्षे दत्ततैलः । पीडोपशमार्थमिति भावः । एतादृशस्त्वं
नखाङ्क इव यद्विरज्यसे विरक्तो भवसि । पक्षे रुधिरशून्यः । इयं कालपरिणतिः । एवं
चेदानींतन
यद्वा यद्विरज्यसे इयं कालपरिणतिरिति काक्

भावः ।