This page has not been fully proofread.

२१०.
 
काव्यमाला ।
 
यते मयेति ध्वन्यते । एवं च सपत्नीसत्त्वमात्रमप्येतादृशदुःखदं किं पुनस्तत्प्राधान्यमिति

व्यज्यते ॥
 

 
काचित्कांचिद्वक्ति
 
--
 
सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् ।

धवलनखाङ्कं निजवपुरकुङ्कुमा न दर्शयति ॥ ६३६ ॥
 

 
सुचिरेति । निशि भुक्ता चतुरेयं गृहिणी अत्यन्तचिरकालेनागते । प्रिय इति भावः ।

प्रातःकाले श्वेतनखचिह्नं स्खशरीरं कुङ्कमार्द्रताभाववन्न दर्शयति । कुङ्कमार्द्रमेव दर्शयती-

त्यर्थः । सुचिरायात इत्यनेन नायिकायामन्यत्रासक्तिसंपादनयोग्यत्वं नायके च मन्मथवि-

हृलतया सम्यङ्गिरीक्षणाभावेऽपि रतकारित्वमावेद्यते । गृहिणीत्यनेन स्वातन्त्र्यं तेन चा.

न्यकर्तृकनिवारणानर्हत्वं व्यज्यते । निशीत्यनेन दर्शनानर्हत्वं नखक्षतेषु ध्वन्यते । दिन-

मुख इत्यनेन नखक्षतेषु दर्शनयोग्यत्वं द्योत्यते । विदग्धपदेन वञ्चनानिपुणत्वं व्यज्यते ।

धवलपदेन नखक्षतेषु प्राचीनत्वं धवलनखाङ्कमित्यनेन यथास्थितशरीरस्य दर्शनायोग्यत्वं

ध्वन्यते । अकुङ्कुमार्द्रे न दर्शयतीत्यनेन प्राचीननखक्षतेष्वपि नवीनत्वभ्रमोदयेन प्राकृता-

नुचिताचरणगोपनमभिव्यज्यते । एवं चैवंविधचतुरयैवैतादृशाचरणं कर्तव्यं नान्ययेति

ध्वन्यते । तेन च न त्वयेति । यद्वैतादृशरीत्यापि नायकः प्रतारयितुं शक्यः, अतो.

नखक्षतादिभीतिमुत्सृज्य मदुक्तमङ्गीकुर्विति दूती नायिकां वक्ति
 
नायिका नायकं वक्ति
-
नायिका नायकं वक्ति
-

 
स्तनजघनोरुप्रणयी गाढं लग्नो निवेशितस्नेहः ।
 

प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ॥ ६३७ ॥

 
स्तनेति । हे प्रिय, स्तनजघनोरुप्रीतिमान् । पक्षे कामतन्त्रे एतत्स्थानेषु नखक्षतदा-

नाद्यभिधानात् । अत्यर्थ लग्नः । हठालिङ्गनप्रवण इत्यर्थः । पक्षेऽत्यन्तं निखात इत्यर्थः ।

निवेशितस्नेहः कृतप्रीतिः । पक्षे दत्ततैलः । पीडोपशमार्थमिति भावः । एतादृशस्त्वं

नखाङ्क इव यद्विरज्यसे विरक्तो भवसि । पक्षे रुधिरशून्यः । इयं कालपरिणतिः । एवं

चेदानींतन कालस्यैवायमपराधो न तवेति भावः । नखाकोऽपि बहुकालेन शुष्को भवति ।

यद्वा यद्विरज्यसे इयं कालपरिणतिरिति काक्का चिरकालसंगतेरिदं फलमित्यर्थः । एवं च

यथा यथा चिरकालीनसंगतिस्तथा तथा सतां प्रीत्युत्कर्षः खलानां पुनरन्यथाभाव

इति भावः ॥
 

 
नायिकादूती नायकं वक्ति-
-
 
सा विच्छाया निशि निशि सुतनुर्बहुतुहिनशीतले तल्पे ।
 

ज्वलति त्वदीयविरहादौषधिरिव हिमवतः पृष्ठे ॥ ६३८ ॥

 
सेति । विच्छायान्यादृशाङ्गकान्तिमती । पक्षे छायाशून्या । प्रकाशशालिवादिति

भावः । लद्विरहात्सा सुतनू रात्रौ रात्रौ बहुहिमतुल्यशैत्यशालिनि । पक्षे बहु तुहिनेन
Sn Cargeshusn Digital Foundation