This page has not been fully proofread.

आर्थासप्तशती ।
 
२०९
 
'सा पतिमात्रानुरागिणी कथं त्वया सह मया संगमनीया' इति वादिनीं सखीं नायको
वक्ति -
 
सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा ।
 
सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा ॥ ६३३ ॥
सुनिरीक्षितेति । हे सखि । सा उत्कृष्टकम्पसहितेन । एतस्याः पतिर्द्रक्ष्यतीति घि-
येति भावः । सोत्कम्पेने त्यनेन सेके चमत्कारपूर्वकत्वाभावो व्यज्यते । मया सिक्ता । ज-
लेनेति भावः । यादृग्घृष्यति स्म, मत्ता बभूवेति वा, तादृक्सुष्टु समीचीन विलोकनकारी
निश्चलहस्तो यः प्रियतमस्तेन धाराजलसिक्ता न माद्यति स्म । सुनिरीक्षितेत्यादिना सेके
चमत्कारपूर्वकत्वमावेद्यते । एवं च सा मय्यनुरक्तेति विज्ञायते । अतः सा त्वया मया
सह संगमनीयेति व्यज्यते ॥
 
दूती नायिकां वक्ति-
सखि मोघीकृतमदने पतिव्रते कस्तवादरं कुरुते ।
 
नाश्रौषीर्भगवानपि स कामविद्धो हरः पूज्यः ॥ ६३४ ॥
 
सखीति । हे सखि । एवं च हितोपदेशार्हत्वं ध्वन्यते । निष्फलीकृतमन्मथे, पति-
मात्रानुरागिणि, तवादरं कः कुरुते । न कोऽपीत्यर्थः । अमुमेवार्थमर्थान्तरन्यासेन
द्रढयति— भगवानपि स हरः शिवश्चतुर्दशी कामस्त्रयोदशी तद्वेधवान्पूज्यः । एवं च
केवलस्य पूजानर्हत्वेऽपि तदभावेन कामविद्धतयैव पूजार्हता हरस्य तत्र का वार्तान्यस्येति
भावः । एवं च यत्राचेतनरूपस्य शिवचतुर्दशी दिवसस्यापि कामाभिधानत्रयोदशीविद्धत
यैव पूज्यताभिधानं धर्मशास्त्रे तत्र का वार्ता सचेतनस्य लोक इति व्यज्यते ॥
नायको नायिकां वक्ति-
सा मथि न दासबुद्धिर्न रतिर्नापि त्रपा न विश्वासः ।
 
हन्त निरीक्ष्य नवोढां मन्ये वयमप्रिया जाताः ॥ ६३९ ॥
 
सेति । हन्त खेदे । नवोढां दृष्ट्वा वयमप्रिया जाता इत्यहं मन्ये । यतो मयि । इद-
मग्रेऽप्यन्वेति । सा दासबुद्धिर्न । पूर्व यथा मय्यनुग्रहस्तथा नाधुनेत्यर्थः । सा रतिः प्री-
तिर्न । पूर्ववत्प्रीतिर्नेत्यर्थः । सा । मन्मथविकारजेति भावः । लजा न । पूर्वे प्रियत-
मोऽयमिति बुद्ध्यान्यसमक्षं लजां कुर्वती स्थितेदानीं तद्बुद्ध्यभावात्तदभाववती वृत्तेति
भावः । क्वचित् 'नापत्रपा' इति पाठः । स विश्वासो न । यद्वा नायिका सखीं वक्ति-
हे सखि, सा दासबुद्धिर्मयि न । यथा पूर्वे दासवदाज्ञां कुर्वन्स्थितस्तथा नाधुनेत्यर्थः । न
प्रीतिः । नान्यतो लजा । पूर्व मयि स्थितायामनेन कदाचिदस्या दुःखं भविष्यतीति
धियान्यस्याः परिहासोऽपि न कृतः, इदानीं मामगणयित्वा निर्लजतया व्यवहरतीति
भावः । न विश्वासः । किंचिद्वस्त्वाद्यपि मद्धस्ते नार्पयतीति भावः । अतो नवोढां
वीक्ष्य वयमप्रिया जाता इत्यहं मन्ये । निरीक्ष्येत्यनेन संगमे किमनेन विधेयं तन्न विज्ञा-
Sri Gargeshwari Digital Foundation
 

 
-