2023-03-25 11:31:49 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
सकरेति । करग्रहणसहितम् । निषेधार्थमित्यर्थः । सरुदितम् । असह्यत्वज्ञापनायेति
भावः । साक्षेपम् । ईदृशे कर्तव्ये कथमनीदृशं विधीयत इत्याक्षेपसहितमित्यर्थः । नखमु-
ष्टिसहितम् । जेतुमिच्छा जिगीषा तत्सहितम् । सकरग्रहं सरुदितमित्यनेन नायकका-
मसंदीपननिपुणत्वमथवा कोमलाङ्गीत्वम्, साक्षेपमित्यनेन कामतन्त्रनिपुणत्वम्, सनखमुष्टि-
सजिगीषमित्यनेन रसनिमग्नमानसत्वं नायिकायामावेद्यते । तस्याः सुरतं सुरतम् । द्वितीयं
सुरतपदम् 'यस्य मित्त्राणि मित्त्राणि' इत्यादिवत्सुखातिशय जनकमित्यर्थान्तरसंक्रमितवा-
च्यम् । अंत एव तत्सुरतादन्यः प्राजापत्यऋक्रतुः । ऋक्रतुपदेन कालान्तरभावि फलत्वं
व्यज्यते। तेन चैतदतिरिक्तपत्नीसुरतं पुत्रादिजननोत्तरं सुखदं न तदानी मेवेत्यनेनापीय-
मेव ममातिशयप्रेमवतीति ॥
दुर्जन निन्दाभिया परपुरुषे मानसमकुर्वाणां नायिकां दूती वक्ति--
सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः ।
केनाश्रावि पिकानां कुहंहूं विहायेतरः शब्दः ॥ ६३० ॥
सखीति । हे सखि । एवं च हितोपदेशकथनार्हत्वं द्योलते । मलिना निर्मलानाम-
भिधानमपि । अपिना संगत्यादेर्ब्व्युदासः । निश्चयेन मुखेन विदधति । अमुमेवार्थम-
र्थान्तरन्यासेन द्रढयति – --पिकानां कुहूं विहायान्यः शब्दः केनाश्रावि । न केनापी-
त्यर्थः । एवं च मलिनोक्तदुरुक्तैः किंचिन्न मनसि दुःखं विधेय मित्यावेद्यते । तेन च दुर्ज
नभीतिमुत्सृज्यखास्वाभिलषितं यथेच्छं साधयेति ॥
क्वचिल्लघुतापि समीचीनफलदेति कश्चित्कंचिद्वक्ति--
स्वल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः ।
ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमानः ॥ ६३१ ॥
स्वल्पा इति । ये रघुपतिसैन्यैः स्वल्पा इति हेतोः समुद्रस्यान्तर्न निःक्षिप्तास्ते शैलाः
स्थितिमन्तः । भुवीति भावः । जाताः । अतो लाघवेनैव बहुमानः । महत्परिमाणस्थि-
तिशालित्वादिति भावः ॥
नायिकासखी नायकं वक्ति--
सा श्यामा तन्वङ्गी दहता शीतोपचारतीत्रेण ।
विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव ॥ ६३२ ॥
सेति । अत्र संबुद्धिपदानुपादानं नायक विषय कक्रोधवत्तामावेदयति । श्यामा षोडश-
वार्षिकी । पक्षे श्यामवर्णां । कृशाङ्गी । पक्षे स्थूलेतरा । सा नायिका दहता शीतोपचा-
रेण तीव्रः । अधिक इत्यर्थः । तेन । विरहेण दूर्वा हिमेनेव पाण्डुतां नीता । एवं च
त्वद्विरहखिन्ना सा त्वयानुमाग्राह्येति व्यज्यते ॥
भावः । साक्षेपम् । ईदृशे कर्तव्ये कथमनीदृशं विधीयत इत्याक्षेपसहितमित्यर्थः । नखमु-
ष्टिसहितम् । जेतुमिच्छा जिगीषा तत्सहितम् । सकरग्रहं सरुदितमित्यनेन नायकका-
मसंदीपननिपुणत्वमथवा कोमलाङ्गीत्वम्, साक्षेपमित्यनेन कामतन्त्रनिपुणत्वम्, सनखमुष्टि
सजिगीषमित्यनेन रसनिमग्नमानसत्वं नायिकायामावेद्यते । तस्याः सुरतं सुरतम् । द्वितीयं
सुरतपदम् 'यस्य मित्त्राणि मित्त्राणि' इत्यादिवत्सुखातिशय
च्यम् । अंत एव तत्सुरतादन्यः प्राजापत्य
व्यज्यते। तेन चैतदतिरिक्तपत्नीसुरतं पुत्रादिजननोत्तरं सुखदं न तदानी
मेव ममातिशयप्रेमवतीति ॥
दुर्जन
सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः ।
केनाश्रावि पिकानां कु
सखीति । हे सखि । एवं च हितोपदेशकथनार्हत्वं द्योलते । मलिना निर्मलानाम-
भिधानमपि । अपिना संगत्यादेर्
र्थान्तरन्यासेन द्रढयति
त्यर्थः । एवं च मलिनोक्तदुरुक्तैः किंचिन्न मनसि दुःखं विधेय
नभीतिमुत्सृज्य
क्वचिल्लघुतापि समीचीनफलदेति कश्चित्कंचिद्वक्ति--
स्वल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः ।
ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमानः ॥ ६३१ ॥
स्वल्पा इति । ये रघुपतिसैन्यैः स्वल्पा इति हेतोः समुद्रस्यान्तर्न निःक्षिप्तास्ते शैलाः
स्थितिमन्तः । भुवीति भावः । जाताः । अतो लाघवेनैव बहुमानः । महत्परिमाणस्थि-
तिशालित्वादिति भावः ॥
नायिकासखी नायकं वक्ति--
सा श्यामा तन्वङ्गी दहता शीतोपचारतीत्रेण ।
विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव ॥ ६३२ ॥
सेति । अत्र संबुद्धिपदानुपादानं नायक
वार्षिकी । पक्षे श्यामवर्णां । कृशाङ्गी । पक्षे स्थूलेतरा । सा नायिका दहता शीतोपचा-
रेण तीव्रः । अधिक इत्यर्थः । तेन । विरहेण दूर्वा हिमेनेव पाण्डुतां नीता । एवं च
त्वद्विरहखिन्ना सा त्वयानु