This page has not been fully proofread.

२०८
 
काव्यमाला ।
 
सकरेति । करग्रहणसहितम् । निषेधार्थमित्यर्थः । सरुदितम् । असह्यत्वज्ञापनायेति

भावः । साक्षेपम् । ईदृशे कर्तव्ये कथमनीदृशं विधीयत इत्याक्षेपसहितमित्यर्थः । नखमु-

ष्टिसहितम् । जेतुमिच्छा जिगीषा तत्सहितम् । सकरग्रहं सरुदितमित्यनेन नायकका-

मसंदीपन निपुणत्वमथवा कोमलाङ्गीत्वम्, साक्षेपमित्यनेन कामतन्त्रनिपुणत्वम्, सनखमुष्टि

सजिगीष मित्यनेन रसनिमग्नमानसत्वं नायिकायामावेद्यते । तस्याः सुरतं सुरतम् । द्वितीयं

सुरतपदम् 'यस्य मित्राणि मित्राणि' इत्यादिवत्सुखातिशय जनकमित्यर्थान्तरसंक्रमितवा-

च्यम् । अंत एव तत्सुरतादन्यः प्राजापत्यऋतुः । ऋतुपदेन कालान्तरभावि फलवं

व्यज्यते। तेन चैतदतिरिक्तपत्नीसुरतं पुत्रादिजननोत्तरं सुखदं न तदानी मेवेत्यनेनापीय-

मेव ममातिशयप्रेमवतीति ॥
 

 
दुर्जन निन्दाभिया परपुरुषे मानसमकुर्वाणां नायिकां दूती वक्ति-
-
 
सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः ।

केनाश्रावि पिकानां कुहं विहायेतरः शब्दः ॥ ६३० ॥

 
सखीति । हे सखि । एवं च हितोपदेशकथनार्हत्वं द्योलते । मलिना निर्मलानाम-

भिधानमपि । अपिना संगत्यादेर्ब्युदासः । निश्चयेन मुखेन विदधति । अमुमेवार्थम-

र्थान्तरन्यासेन द्रढयति – पिकानां कुहूं विहायान्यः शब्दः केनाश्रावि । न केनापी-

त्यर्थः । एवं च मलिनोक्तदुरुक्तैः किंचिन्न मनसि दुःखं विधेय मित्यावेद्यते । तेन च दुर्ज

नभीतिमुत्सृज्य खाभिलषितं यथेच्छं साधयेति ॥
 
-
 

 
क्वचिल्लघुतापि समीचीनफलदेति कश्चित्कंचिद्वक्ति-
-
 
स्वल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः ।
 

ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमानः ॥ ६३१ ॥

 

 
स्वल्पा इति । ये रघुपतिसैन्यैः स्वल्पा इति हेतोः समुद्रस्यान्तर्न निःक्षिप्तास्ते शैलाः

स्थितिमन्तः । भुवीति भावः । जाताः । अतो लाघवेनैव बहुमानः । महत्परिमाणस्थि-

तिशालित्वादिति भावः ॥
 

 
नायिकासखी नायकं वक्ति-
-
 
सा श्यामा तन्वङ्गी दहता शीतोपचारतीत्रेण ।
 

विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव ॥ ६३२ ॥
 

 
सेति । अत्र संबुद्धिपदानुपादानं नायक विषय कक्रोधवत्तामावेदयति । श्यामा षोडश-

वार्षिकी । पक्षे श्यामवर्णां । कृशाङ्गी । पक्षे स्थूलेतरा । सा नायिका दहता शीतोपचा-

रेण तीव्रः । अधिक इत्यर्थः । तेन । विरहेण दूर्वा हिमेनेव पाण्डुतां नीता । एवं च

त्वद्विरहखिन्ना सा त्वयानुमायेति व्यज्यते ॥
 
Sri Gurgeshwin Digital Foundation