This page has been fully proofread once and needs a second look.

नायकं नायिकासखी वक्ति--
 
स्पृशति नखैर्न च विलिखति सिचयं गृह्णाति न च विमोचयति ।
न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥६२६॥
 
स्पृशतीति । सा नखैः स्पृशति न च विलिखति । नखाग्रस्पर्शसंपादनेन मदनवत्त्वं
नखक्षताद्यकरणेन लज्जावत्त्वमावेद्यते । सिचयम् । तत्करकलितमिति भावः । गृह्णाति न
च विमोचयति । गृह्णातीत्यनेन लज्जावत्त्वं न विमोचयतीत्यनेन मदनवत्त्वं ध्वन्यते । न
च मुञ्चति । गन्तुं न प्रयच्छति न वा गच्छतीत्यर्थः । न च मदयति । न मदयतीत्यनेन
मान्मथस्पष्टचेष्टाद्य करणेन लज्जावत्त्वं व्यज्यते । निशामतिवाहयति न निद्राति । तूष्णीं
निशातिवाहनेन लज्जावत्त्वं निद्राद्यविधानेन मन्मथवत्त्वं द्योत्यते । एवं च मध्यास्वभा-
वादियमेतादृशी न तु कोपादिमतीत्यतो भीतिमुत्सृज्यैनां निगृह्य स्वाभिलषितं संपादयेति
ध्वन्यते ॥
 
नायकः सखायं वक्ति--
 
स्तनजघनद्वयमस्या लङ्घितमध्यः सखे मम कटाक्षः ।
नोज्झति रोधस्वत्यास्तटद्वयं तीर्थकाक इव ॥ ६२७ ॥
 
स्तनेति । हे सखे, तीर्थसंबन्धिकाको नयास्तटद्वयमिव लङ्घितो मध्यः कटिये॑र्येन ।
सूक्ष्मत्वादिति भावः । पक्षे लक्षितप्रवाहः । मम कटाक्षस्तस्या उन्नतम् । तटद्वयविशे-
षणमप्येतत् । स्तनजघनम् । प्राण्यङ्गत्वादेकवद्भावः । नोज्झति । तीर्थकाक इत्यनेन
कटाक्षे काकोपमेयतया नायिकायां तीर्थरूपत्वप्रतिपादनेन प्राक्तनकृतसुकृतसमूहैकल-
भ्यत्वं नायिकायामावेद्यते । लङ्घितमध्य इत्यनेन मध्यपाते जीवनमेवासंभवीति व्यज्यते ।
तस्याः स्तने कदाचिजघने वा दृष्टिर्ममावतिष्ठते नान्यत्रेति भावः । एवं च तस्यामास-
क्तिस्त्वया न विधेयेति नाहमुपदेष्टव्य इति व्यज्यते ॥
 
नायकः सखायं वक्ति--
 
सत्रीडस्मितमन्दश्वसितं मां मा स्पृशेति शंसन्त्या ।
आकोपमेत्य वातायनं पिघाधाय स्थितं प्रियया ॥ ६२८ ॥
 
सव्रीडेति । आ ईषत्कोपमेय लज्जास्मितकिंचिच्छ्सितसहितम् । सख्यादिविलोक-
नाल्ज्जा । कथमयमकस्मादेव पश्यन्तीषु सखीषु तादृगाचरणप्रवृत्त इति स्मयेन स्मितम् ।
मन्मथाविर्भावाच्च मन्दश्वसितम् । मां मा स्पृशेति कथयन्त्या प्रियया वातायनं पिधाय
स्थितम् । एवं च सख्यादिदृगविषयतासंपादनेन यथेच्छरत्यनुमतिर्दत्तेति ध्वन्यते । तेन
चैतादृशी नान्या चतुरेति ॥
 
नायकः सखायं वक्ति--
 
सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम् ।
तस्याः सुरतं सुरतं प्राजापत्यक्रतुरतोऽन्यः ॥ ६२९ ॥