This page has been fully proofread once and needs a second look.

द्यूतं विधिः कर्तव्यार्थो यस्य स तस्य । विधिपदमवश्यकर्तव्यत्वमावेदयति । एवं च यथा
द्यूतसक्तस्य कोटिसंख्याकं वसु समधिकं वराटिका न्यूनेति ज्ञानशून्यत्वं तथा धूर्तस्य
तव विशेषज्ञानशून्यत्वमिति भावः । एवं च गुणानभिज्ञतया त्वया तां मत्सखीं विहाया-
न्यत्रासक्तिः क्रियत इति व्यज्यते ॥
 
सखी नायकं वक्ति--
 
सा विरहदहनदूना मृत्वा मृत्वापि जीवंति वराकी ।
शारीव कितव भवतानुकूलिता पातिताक्षेण ॥ ६२३ ॥
 
सेति । हे कितव, पातिताक्षेण कृतकटाक्षेण । पक्षेऽक्षः पाशः । भवतानुकूलिता
स्वाधीनीकृता । पक्षे संचरणक्षमा कृता । विरहानलखिन्ना सा वराकी । एवं च स-
रलत्वमावेद्यते । चतुरङ्गगुटिकेव मृत्वा मृत्वापि जीवति । एवं च तस्यास्त्वत्कटाक्षमात्रेण
जीवनम्, अन्यथा मरणमेवेति भावः । एवं च या हि स्वदर्शनादिनानोपायैः स्ववशतामा-
नीता तस्यां पुनरीदृशौदासीन्यसंपादनं कथमनौचितीं ते नावहतीति व्यज्यते । तेन च
सा त्वयानुप्ग्राह्येति । पक्षे मरणं क्रीडाक्षमत्वम् । जीवनं तत्क्षमत्वम् ॥
 
नायिका सखीं वक्ति--
 
स्पर्शादेव स्वेदं जनयति न च मे ददाति निद्रातुम् ।
प्रिय इव जघनांशुकमपि न निदाघः क्षणमपि क्षमते ॥ ६२४ ॥
 
स्पर्शादिति । निदाघः प्रिय इव । एवं च निवारणानर्हत्वं ध्वन्यते । स्पर्शमात्रात् ।
एवं च किंचित्कालोत्तरं किमनेन विधेयमिति न विद्म इति व्यज्यते । पक्षे रतादिजन्या-
वस्था वक्तुं न शक्येति व्यज्यते । स्वेदं करोति । निद्रां कर्तुं च मे न ददाति । जघ-
नसंबन्धि वसनमपि क्षणमपि न क्षमते । उभयत्र जघनवसनसत्त्वमावश्यकं तदभावे
'का वार्तालंकरणादीनां का च वार्ता घण्टिकादीनामिति भावः । एवं च प्रतिक्षणदृढत-
ररतकारी मत्प्रिय इति व्यज्यते । एवं चैतादृशनिदाघकाले प्रियतममन्तरा नावस्थातुं
शक्यम्, अतस्त्वरस्व तदानयनार्थमिति ध्वन्यते ॥
 
दूती नायकं वक्ति--
 
सा भवतो भावनया समयविरुद्धं मनोभवं बाला ।
नूतनलतेव सुन्दर दोहदशत्क्त्या फलं वहति ॥ ६२
 
सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं व्यज्यते । यद्वैतद्दोहदविशेषणम् । नूतन-
लता । नूतनपदेन चिरभाविफलयोग्यत्वं द्योत्यते । दोहदस्य शक्त्या फलमिव सा
बाला भवतो निरन्तरचिन्तनेन समयविरुद्धम् । बाल्ये हि मनोभवोद्रेकवत्त्वं विरुद्धमिति
भावः । फलविशेषणमप्येतत् । मन्मथं वहति । एवं च सा मदनकलाकलापानभिज्ञेति
न मन्तव्यं त्वयेति व्यज्यते। तेन चाभुक्तभोगान्नाधिकं किमपि सुखम्, अतस्त्वरख तद्दर्श-
नायेति ॥