This page has been fully proofread once and needs a second look.

इति व्यज्यते । यद्वा या तवानुग्रहकारिणीत्वेनाभिमता । एवं च वास्तवं तस्यास्त्वय्यनु-
ग्रहो नास्तीत्यर्थः । पक्षे या ते । अविद्यमानेऽपि वस्तुनीति भावः । अनुग्राहिणी । अ-
विद्यमानवस्तुविषयीणीत्यर्थः । अपिः पूर्वसमुच्चायकः । तां दुष्टां बुद्धिमिव गुप्तव्यभिचा-
रकारिणीम् । पक्षे झटित्यज्ञेय भ्रमत्ववतीम् । न जानासि । एवं चैतादृशदुष्टायामासक्तिसं-
पादनं तवानुचितमिति व्यज्यते ॥
 
कश्चित्कां काञ्चिद्वक्ति--
 
सपरावृत्ति चरन्ती वात्येव तृणं मनोऽनवद्याङ्गि ।
हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥ ६२१ ॥
 
सपरावृत्तीति । हे अनवद्याङ्गि । एवं च स्पृहणीयत्वमावेद्यते । परावृत्तिसहितं च-
लन्ती । पुनः पुनः पश्चान्निरीक्षमाणा चलन्तीत्यर्थः । त्वमित्यस्यानुपादानं लोकभीतिमा-
वेदयति । पक्षे परिभ्रमणवती । मनः । ममेति पदानुपादानेन यदीदं मनो मदीयं स्या-
हिंर्हि त्वत्कृतैतादृशैतदवस्था कथं मया द्रष्टुं शक्येति व्यज्यते । यद्वा मदीयत्वेन ज्ञाते म-
नसीतोऽप्यधिकतरपीडानया विधेयेति भीतिरावेद्यते । वात्या तृणमिव हरसि, अवलोक-
नेन स्वाधीनं करोषि । त्वय्यासक्तं भवतीति भावः । क्षिपसि । अनवलोकने ऽहमनया
नानुगृहीत इति दुःखभाक्करोषीति भावः । तरलयसि । पुनरवलोकने मय्यनुग्रहवतीति
घियेयं मयाञ्चले झटिति धर्तव्येति चाञ्चल्यभाक्करोषीति भावः । भ्रमयसि । पुनरनवलो-
कनेऽज्ञानशालिनं करोषि । सर्वथा किंकर्तव्यतामूढं संजातमिति भावः । तोलयसि ।
पुनरवलोकनेन किमस्मिन् किञ्चिद्धैर्यमस्ति न वेति ज्ञापकयथावस्थितिशालित्वाभाववत्क-
रोषीति भावः । एवं क्षणं धैर्यशालि क्षणमधैर्यशालि संवृत्तमिति भावः । पातयसि मू-
र्छितं करोषि । पुनरवलोकनादिति भावः । एवं च त्वत्कटाक्षरूपसायकैरसमसायकेन
भूयो भूयो जर्जरीकृतं सन्निष्प्राणमिव संजातमिति भावः । अन्योऽपि कश्चिद्वीरः पुनः
पुनर्हन्यमानो मूर्तितो भवतीति लौकिकम् । एवं च निरपराधिनो ममैतादृशदुःखविधाने
कथं नापराध्यति भवतीति व्यज्यते ॥
 
नायिकासखी नायकं वक्ति--
 
सा बहुलक्षणभावा स्त्रीमात्रं वेति कितव तव तुल्यम् ।
कोटिर्वराटिका वा द्यूतविधेः सर्व एव पणः ॥ ६२२ ॥
 
सेति । हे कितव । एवं च तवैतादृशबुद्धिशालित्वमुचितमिति व्यज्यते । तव बहू-
नि यानि लक्षणान्यस्थूलाधरत्वादीनि तेषां भावः सत्ता यस्यां सा । यद्वा बहुला ये क्षणा
उत्सवास्ते येभ्य एतादृशा भावा विलासा यस्यां सा । एवं चेतरनायिकातोऽधिकत्वमा-
वेद्यते । पक्षे बहूनां समग्राणां लक्षाणां भाव आलोकनं चित्ताभिप्रायो वा यस्यां सा ।
एतादृशी सा नायिका स्त्रीमात्रं वेति तव । एवं चान्यस्य नैतादृशी मतिरिति भावः ।
तुल्यम् । मात्रपदेन लक्षणादिसत्त्वविरह आवेद्यते । अमुमेवार्थमर्थान्तरन्यासेन द्रढ -
यति--द्यूतविधिसंबन्धिकोटि: कोटिसंख्याकं वस्तु कपर्दिका वा सर्व एव पणः । यद्वा