This page has not been fully proofread.

आर्यासप्तशती ।
 
२०५
 
इति व्यज्यते । यद्वा या तवानुग्रहकारिणीत्वेनाभिमता । एवं च वास्तवं तस्यास्त्वय्यनु-

अहो नास्तीत्यर्थः । पक्षे या ते । अविद्यमानेऽपि वस्तुनीति भावः । अनुग्राहिणी । अ-

विद्यमानवस्तुविषयीणीत्यर्थः । अपिः पूर्वसमुच्चायकः । तां दुष्टां बुद्धिमिव गुप्तव्यभिचा-

रकारिणीम् । पक्षे झटित्यज्ञेय भ्रमत्ववतीम् । न जानासि । एवं चैतादृशदुष्टायामासक्तिसं-

पादनं तवानुचितमिति व्यज्यते ॥

 
कश्चित्कांचिद्वक्ति-
-
 
सपरावृत्ति चरन्ती वात्येव तृणं मनोऽनवद्याङ्गि ।
 

हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥ ६२१ ॥

 
सपरावृत्तीति । हे अनवद्याङ्गि । एवं च स्पृहणीयत्वमावेद्यते । परावृत्तिसहितं च-

लन्ती । पुनः पुनः पश्चानिरीक्षमाणा चलन्तीत्यर्थः । त्वमित्यस्यानुपादानं लोकभीतिमा-

वेदयति । पक्षे परिभ्रमणवती । मनः । ममेतिपदानुपादानेन यदीदं मनो मदीयं स्या-

तहिं त्वत्कृतैतादृशैतदवस्था कथं मया द्रष्टुं शक्येति व्यज्यते । यद्वा मदीयत्वेन ज्ञाते म-

नसीतोऽप्यधिकतरपीडानया विधेयेति भीतिरावेद्यते । वात्या तृणमिव हरसि, अवलोक-

नेन स्वाधीनं करोषि । त्वय्यासक्तं भवतीति भावः । क्षिपसि । अनवलोकने ऽहमनया

नानुगृहीत इति दुःखभाकरोषीति भावः । तरलयसि । पुनरवलोकने मय्यनुग्रहवतीति

घियेयं मयाञ्चले झटिति धर्तव्येति चाञ्चल्यभाकरोषीति भावः । भ्रमयसि । पुनरनवलो-

कनेऽज्ञानशालिनं करोषि । सर्वथा किंकर्तव्यतामूढं संजातमिति भावः । तोलयसि ।

पुनरवलोकनेन किमस्मिन्किचिद्धैर्यमस्ति न वेति ज्ञापकयथावस्थितिशालित्वाभाववत्क-

रोषीति भावः । एवं क्षणं धैर्यशालि क्षणमधैर्यशालि संवृत्तमिति भावः । पातयसि मू-

छितं करोषि । पुनरवलोकनादिति भावः । एवं च त्वत्कटाक्षरूपसायकैरसमसायकेन

भूयो भूयो जर्जरीकृतं सन्निष्प्राणमिव संजातमिति भावः । अन्योऽपि कश्चिद्वीरः पुनः

पुनर्हन्यमानो मूर्तितो भवतीति लौकिकम् । एवं च निरपराधिनो ममैतादृशदुःखविधाने

कथं नापराध्यति भवतीति व्यज्यते ॥
 

 
नायिकासखी नायकं वक्ति-
-
 
-
 
सा बहुलक्षणभावा स्त्रीमात्रं वेति कितव तव तुल्यम् ।

कोटिर्वराटिका वा द्यूतविधेः सर्व एव पणः ॥ ६२२ ॥
 

 
सेति । हे कितव । एवं च तवैतादृशबुद्धिशालित्वमुचितमिति व्यज्यते । तव बहू-

नि यानि लक्षणान्यस्थूलाधरत्वादीनि तेषां भावः सत्ता यस्यां सा । यद्वा बहुला ये क्षणा

उत्सवास्ते येभ्य एतादृशा भावा विलासा यस्यां सा । एवं चेतरनायिकातोऽधिकत्वमा-

वेद्यते । पक्षे बहूनां समग्राणां लक्षाणां भाव आलोकनं चित्ताभिप्रायो वा यस्यां सा ।

एतादृशी सा नायिका स्त्रीमात्रं वेति तव । एवं चान्यस्य नैतादृशी मतिरिति भावः ।

तुल्यम् । मात्रपदेन लक्षण दिसत्त्वविरह आवेद्यते । अमुमेवार्थमर्थान्तरन्यासेन द्रढ -

यति—द्यूतविधिसंबन्धिकोटि: कोटिसंख्याकं वस्तु कपर्दिका वा सर्व एव पणः । यद्वा