This page has been fully proofread once and needs a second look.

यद्वा मनोहरा सुन्दरी लज्जिता नमति । स्वेदेत्यादिविशेषणस्य सप्तपदीत्यादिविशेषणं
हेतुगर्भम् । एवं च नितम्बादि प्राशस्त्यमावेद्यते । लज्जायां तु स्वेदादिना मदीयमदनवि-
कार एभिर्ज्ञात इति धीर्हेतुः । एवं चैतादृशप्रौढापरिणय एव सम्यगिति व्यज्यत इति
कश्चित् कञ्चिद्वक्तीत्यप्यर्थः ॥
 
समीचीनानामप्यसमीचीनसंसर्गादन्यथाभावो भवतीति कश्चित्कं कञ्चिद्वक्ति--
 
सुरसप्रवर्तमानः संघातोऽयं समानवृत्तानाम् ।
एत्यैव भिन्नवृत्तैर्भङ्गुरितः काव्यसर्ग इव ॥ ६१८ ॥
 
सुरसेति । समीचीनरसैः प्रकर्षेण वर्तमानः । पक्षे समीचीनरसवान् । समानाचरण-
वताम् । पक्षे एकजातीयच्छन्दसाम् । अयं समुदायः काव्यस्य सर्ग इवान्यादृशाचरणप्र-
वणैः । पक्षे विजातीयच्छन्दोभिः । एत्यैव । एवकारेण बहुकालावस्थितौ किं भविष्य-
तीति न विद्म इति व्यज्यते । भङ्गुरितः कुटिलीकृतः । पक्षे समापितः । एवं चासत्सं-
गतिरनुचितेति ध्वन्यते । यद्वा सर्वेऽप्येते समीचीना मत्सहायपक्ष एव स्थिताः, परमधुनैव
कैश्चिद्दुष्टैरागत्यान्यथाभावं नीता इति कश्चित्कंचिद्वक्ति ॥
 
कश्चित् सखायं वक्ति--
 
सर्वासामेव सखे पय इव सुरतं मनोहारि ।
तस्या एव पुनः पुनरावृत्तौ दुग्धमिव मधुरम् ॥ ६१९ ॥
 
सर्वांसामिति । हे सखे, सर्वासामेव । स्त्रीत्वसाधारणधर्मवत्तयेति भावः । सुरतं पय
इव दुग्धमिव समीचीनम् । आवर्तितं दुग्धमिव तस्या एव पुनः पुनरावृत्तौ सुरतं मधुरम् ।
एवं च सर्वकामिनीनां सुरतं सममेव परमिदमधिकं तस्या यदुत्तरोत्तरसुरते माधुर्यमिति
भावः । एवं चान्यासां प्रथमत एव माधुर्येयं न पुनरुत्तरोत्तरत इति व्यज्यते । तेन च त -
त्तुल्या नान्या नायिकेति । यद्वा सर्वासामेव पुनः पुनरावृत्तौ सुरतं जलमिव मनोहारि
पुनः पुनरावृत्तौ तस्या एव सुरतं दुग्धमिव मधुरम् । एवं च यथा जलदुग्धयोर्मंहदन्तरं
तथान्यासां तस्याश्चोत्तरोत्तरसुरत इति व्यज्यते । प्रथमव्याख्याने पयःपदस्थाने दुग्धपदं
दुग्धपदस्थाने पयःपदं वेत्युभयत्रैकपददानमुचितम् ॥
 
कश्चित्कं कञ्चिद्वक्ति--
 
स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदिस्थापि ।
दुष्टां न बुद्धिमिव तां गूढव्यभिचारिणीं वेत्सि ॥ ६२० ॥
 
स्वप्नेऽपीति । यां स्वप्नेऽपि । अपिनेतरकालसंग्रहः । एवं चासक्त्यतिशयो द्योत्यते ।
पक्षे स्वप्नेऽपि बुद्धेः सत्त्वाद्यथाश्रुतम् । या हृदिस्थापि । तवेति भावः । तेऽनु पश्चाद्ग्रा-
हिणी । परपुरुषमिति भावः । एवं च यां त्वं सर्वदा ध्यायसि सा त्वयि क्वचित् क्षणमपि
गते परपुरुषमभिलषतीति भावः । अथवा त्वद्धृदिस्थापि परपुरुषानुग्रहवतीत्यर्थः । एवं च
त्वद्धृदिस्थितिकालेऽपि परपुरुषे मनः कुरुते या सा त्वत्पश्चात् किं करिष्यतीति तन्न विद्म