This page has not been fully proofread.

२०४
 
काव्यमाला ।
 
यद्वा मनोहरा सुन्दरी लज्जिता नमति । स्वेदेंत्यादिविशेषणस्य सप्तपदीत्यादिविशेषणं

हेतुगर्भम् । एवं च नितम्बादि प्राशस्त्यमावेद्यते । लज्जायां तु स्वेदादिना मदीय मदनवि

कार एभिर्ज्ञात इति धीर्हेतुः । एवं चैतादृशप्रौढापरिणय एव सम्यगिति व्यज्यत इति

कश्चित्कंचिद्वक्तीत्यप्यर्थः ॥
 

 
समीचीनानामप्यसमीचीनसंसर्गादन्यथाभावो भवतीति कश्चित्कंचिद्वक्ति
 
--
 
सुरसप्रवर्तमानः संघातोऽयं समानवृत्तानाम् ।
 

एत्यैव भिन्नवृत्तैर्भङ्गुरितः काव्यसर्ग इव ॥ ६१८ ॥
 

 
सुरसेति
 

 
। समीचीनरसैः प्रकर्षेण वर्तमानः । पक्षे समीचीनरसवान् । समानाचरण

वताम् । पक्षे एकजातीयच्छन्दसाम् । अयं समुदायः काव्यस्य सर्ग इवान्यादृशाचरणप्र-

वणैः । पक्षे विजातीयच्छन्दोभिः । एत्यैव । एवकारेण बहुकालावस्थितौ किं भविष्य-

तीति न विद्म इति व्यज्यते । भङ्गुरितः कुटिलीकृतः । पक्षे समापितः । एवं चासत्सं-

गतिरनुचितेति ध्वन्यते । यद्वा सर्वेऽप्येते समीचीना मत्सहायपक्ष एव स्थिताः, परमधुनैव

कैश्चिद्दुष्टैरागत्यान्यथाभावं नीता इति कश्चित्कंचिद्वति ॥

 
कश्चित्सखायं वक्ति-
-
 
सर्वासामेव सखे पय इव सुरतं मनोहारि ।
 

तस्या एव पुनः पुनरावृत्तौ दुग्धमिव मधुरम् ॥ ६१९ ॥

 
सर्वांसामिति । हे सखे, सर्वासामेव । स्त्रीत्वसाधारणधर्मवत्तयेति भावः । सुरतं पय

इव दुग्धमिव समीचीनम् । आवर्तितं दुग्धमिव तस्या एव पुनः पुनरावृत्तौ सुरतं मधुरम् ।

एवं च सर्वकामिनीनां सुरतं सममेव परमिदमधिकं तस्या यदुत्तरोत्तरसुरते माधुर्यमिति

भावः । एवं चान्यासां प्रथमत एव माधुर्ये न पुनरुत्तरोत्तरत इति व्यज्यते । तेन च त -

तुल्या नान्या नायिकेति । यद्वा सर्वासामेव पुनः पुनरावृत्तौ सुरतं जलमिव मनोहारि

पुनः पुनरावृत्तौ तस्या एव सुरतं दुग्धमिव मधुरम् । एवं च यथा जलदुग्धयोर्मंहदन्तरं

तथान्यासां तस्याश्चोत्तरोत्तरसुरत इति व्यज्यते । प्रथमव्याख्याने पयःपदस्थाने दुग्धपदं

दुग्धपदस्थाने पयःपदं वेत्युभयत्रैकपददानमुचितम् ॥

 
कश्चित्कंचिद्वक्ति-
-
 

 
स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदिस्थापि ।
 

दुष्टां न बुद्धिमिव तां गूढव्यभिचारिणीं वेत्सि ॥ ६२० ॥
 

 

 
स्वप्नेऽपीति । यां स्वप्नेऽपि । अपिनेतरकालसंग्रहः । एवं चासक्त्यतिशयो द्योत्यते ।

पक्षे खप्नेऽपि बुद्धेः सत्त्वाद्यथाश्रुतम् । या हृदिस्थापि । तवेति भावः । तेऽनु पश्चाद्रा-

हिणी । परपुरुषमिति भावः । एवं च यां त्वं सर्वदा ध्यायसि सा त्वयि क्वचित्क्षणमपि

गते परपुरुषमभिलषतीति भावः । अथवा त्वद्धृदिस्थापि परपुरुषानुग्रहवतीर्थः । एवं च

खद्धृदिस्थितिकालेऽपि परपुरुषे मनः कुरुते या सा लत्पश्चात्किं करिष्यतीति तन्न विद्म