2023-03-25 10:31:51 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
मनः पाषाणः । पक्षे मनःशिला धातुविशेषः । संजात इति तर्कयामि । एवं च भवदे-
कशरण उचितमात्राचरणप्रवणे निजरमणे नैवंविधं नैष्ठुर्यं तव कर्तुं समुचितमिति
ध्वन्यते । तेन चावश्यं तमनुसरेति ॥
सखी नायिकां वक्ति--
सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि ।
खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरिस्थितः कोपः ॥ ६१६ ॥
सखीति । हे सखि, दुरवगाहः केनाप्युपायेन निवारयितुमशक्यः स चासौ गहनः ।
बहुतर इत्यर्थः । पक्षे केनाप्युपायेनाकलयितुमशक्यः कुटिलाशयश्चेत्यर्थः । प्रियजनेऽपि
नायकेऽपि । अपिः करणानर्हत्वमावेदयति । पक्षे स्वेप्सितजनेऽपि । एवं च किमुतान्य-
त्रेति भावः । विप्रियं दुखं विदधानः । विनतं यन्मुखं तस्योपरि स्थितः । पक्षे साधो-
रुपरि स्थितः । साधोः क्लेशद इत्यर्थः । एवं च दुष्टस्य दुष्टाद्भीतिः साधुतो नेत्यर्थः ।
दुष्ट इव तव कोपो दुर्लक्ष्यो ज्ञातुमशक्यः । पक्षे द्रष्टुमशक्यः । एवं चैतादृशकोपकरण-
मनुचितं तवेति ध्वन्यते । 'विनयमुखोपस्थितः' इति पाठे विनयो मुखेऽग्रतो यस्यै-
तादृश उपस्थितः । जात इत्यर्थः । एवं चैतादृशविनय प्रदर्शनमप्यन्यादृशमेव मे भातीति
व्यज्यते । पक्षे विनयो मुखे यस्य । न तु हृदय इति भावः । दुर्लक्ष्यः । विनयमुखत्वा -
देवेत्युभयत्र भावः । दुरवगाहेत्यादेः प्राग्वदेव । प्रियजनेऽपि विप्रियं विदधानः । प्रिये
विनयप्रदर्शनस्योदासीनत्वादिति भावः । पक्षे प्राग्वत् । हे सखि, खल इव तव कोपः ।
एवं चैतादृशकोपकरणमनुचितं तवेति भाव इत्यर्थः ॥
कथमियमुपरिविवाहोत्सवं नावलोकयतीति वादिनं विदिततद्वृत्तान्तः कश्चिद्वति--
स्वेदसचेलस्नाता सप्तपदी सप्त मण्डलीर्यान्ती ।
समदनदहनविकारा मनोहराब्व्रीडिता नमति ॥ ६१७ ॥
स्वेदेति । स्वेदेन । त्वद्दर्शन जेनेति भावः । सवसनस्नानशालिनी । सप्तपदसमाहाररूपा
सप्त मण्डलीरतिक्रामन्ती । मदनरूपो यो दहनस्तस्य यो विकारस्तत्सहिता। चित्तहारिणी ।
लज्जिता नम्रीभवति । एवं चानया त्वच्चित्तमपहृतम्, अत एवाग्निदिव्ये स्वेदरूपजले
सवसन फ्रुप्लुता सप्तपदीरूपसप्तमण्डलातिक्रमकारिणी मदनरूपाग्निदाहशालिनी संजाताशु •-
द्धिमत्तया लज्जावशान्नोर्ध्वमीक्षत इति भावः । एवं च त्वद्विषयकलज्जावशादेवमुन्नीयते
यदियं विहितेऽपि विवाहे न त्वां त्यक्ष्यतीति व्यज्यते । अन्योऽपि तस्करः संजातदिव्य-
दूषणः किमिदानीं वक्तव्यं मयेति विगलितधिषणोऽधस्तादेव विलोकयन्नास्त इति लौकि-
कम् । यद्वा नायको नायिकासखीं वक्ति – --एवं चेयं मन्मनोरूपवस्तु हृतवती वैवाहिक -
च्छद्मदिव्येऽपि शुद्ध्यभाववती समपहृतवस्त्वददती मयेयं भुजपाशेन बद्धाध्वा निर्दयं मर्द-
यित्वा मुष्टट्यभिघातैरुरसि ताडयित्वा दन्तनखक्षतैश्च क्लेशभागिनी विधेया तत्रभवत्या
नैतत्यक्षरक्षणं क्षणमपि विधेयमिति व्यज्यते । तेन च कृतविवाहामध्प्येनां न मुञ्चामीति ।
कशरण उचितमात्राचरणप्रवणे निजरमणे नैवंविधं नैष्ठुर्यं तव कर्तुं समुचितमिति
ध्वन्यते । तेन चावश्यं तमनुसरेति ॥
सखी नायिकां वक्ति--
सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि ।
खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरिस्थितः कोपः ॥ ६१६ ॥
सखीति । हे सखि, दुरवगाहः केनाप्युपायेन निवारयितुमशक्यः स चासौ गहनः ।
बहुतर इत्यर्थः । पक्षे केनाप्युपायेनाकलयितुमशक्यः कुटिलाशयश्चेत्यर्थः । प्रियजनेऽपि
नायकेऽपि । अपिः करणानर्हत्वमावेदयति । पक्षे स्वेप्सितजनेऽपि । एवं च किमुतान्य-
त्रेति भावः । विप्रियं दुखं विदधानः । विनतं यन्मुखं तस्योपरि स्थितः । पक्षे साधो-
रुपरि स्थितः । साधोः क्लेशद इत्यर्थः । एवं च दुष्टस्य दुष्टाद्भीतिः साधुतो नेत्यर्थः ।
दुष्ट इव तव कोपो दुर्लक्ष्यो ज्ञातुमशक्यः । पक्षे द्रष्टुमशक्यः । एवं चैतादृशकोपकरण-
मनुचितं तवेति ध्वन्यते । 'विनयमुखोपस्थितः' इति पाठे विनयो मुखेऽग्रतो यस्यै-
तादृश उपस्थितः । जात इत्यर्थः । एवं चैतादृशविनय
व्यज्यते । पक्षे विनयो मुखे यस्य । न तु हृदय इति भावः । दुर्लक्ष्यः । विनयमुखत्वा -
देवेत्युभयत्र भावः । दुरवगाहेत्यादेः प्राग्वदेव । प्रियजनेऽपि विप्रियं विदधानः । प्रिये
विनयप्रदर्शनस्योदासीनत्वादिति भावः । पक्षे प्राग्वत् । हे सखि, खल इव तव कोपः ।
एवं चैतादृशकोपकरणमनुचितं तवेति भाव इत्यर्थः ॥
कथमियमुपरिविवाहोत्सवं नावलोकयतीति वादिनं विदिततद्वृत्तान्तः कश्चिद्वति--
स्वेदसचेलस्नाता सप्तपदी सप्त मण्डलीर्यान्ती ।
समदनदहनविकारा मनोहरा
स्वेदेति । स्वेदेन । त्वद्दर्शन
सप्त मण्डलीरतिक्रामन्ती । मदनरूपो यो दहनस्तस्य यो विकारस्तत्सहिता। चित्तहारिणी ।
लज्जिता नम्रीभवति । एवं चानया त्वच्चित्तमपहृतम्, अत एवाग्निदिव्ये स्वेदरूपजले
सवसन
द्धिमत्तया लज्जावशान्नोर्ध्वमीक्षत इति भावः । एवं च त्वद्विषयकलज्जावशादेवमुन्नीयते
यदियं विहितेऽपि विवाहे न त्वां त्यक्ष्यतीति व्यज्यते । अन्योऽपि तस्करः संजातदिव्य-
दूषणः किमिदानीं वक्तव्यं मयेति विगलितधिषणोऽधस्तादेव विलोकयन्नास्त इति लौकि-
कम् । यद्वा नायको नायिकासखीं वक्ति
च्छद्मदिव्येऽपि शुद्ध्यभाववती समपहृतवस्त्वददती मयेयं भुजपाशेन बद्
यित्वा मुष्
नैतत्यक्षरक्षणं क्षणमपि विधेयमिति व्यज्यते । तेन च कृतविवाहाम