This page has not been fully proofread.

आर्यासप्तशती ।
 
२०३
 
मनः पाषाणः । पक्षे मनःशिला धातुविशेषः । संजात इति तर्कयामि । एवं च भवदे..

कशरण उचितमात्राचरणप्रवणे निजरमणे नैवंविधं नैष्टुर्ये तव कर्ते समुचितमिति

ध्वन्यते । तेन चावश्यं तमनुसरेति ॥
 

 
सखी नायिकां वक्ति-
-
 
सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि ।
 

खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरिस्थितः कोपः ॥ ६१६ ॥

 
सखीति । हे सखि, दुरवगाहः केनाप्युपायेन निवारयितुमशक्यः स चासौ गहनः ।

बहुतर इत्यर्थः । पक्षे केनाप्युपायेनाकलयितुमशक्यः कुटिलाशयश्चेत्यर्थः । प्रियजनेऽपि

नायकेऽपि । अपिः करणानर्हत्वमावेदयति । पक्षे स्वेप्सितजनेऽपि । एवं च किमुतान्य-

त्रेति भावः । विप्रियं दुखं विदधानः । विनतं यन्मुखं तस्योपरि स्थितः । पक्षे साधो-

रुपरि स्थितः । साधोः क्लेशद इत्यर्थः । एवं च दुष्टस्य दुष्टाद्भीतिः साधुतो नेत्यर्थः ।

दुष्ट इव तव कोपो दुर्लक्ष्यो ज्ञातुमशक्यः । पक्षे द्रष्टुमशक्यः । एवं चैतादृशकोपकरण-

मनुचितं तवेति ध्वन्यते । 'विनयमुखोपस्थितः' इति पाठे विनयो मुखेऽग्रतो यस्यै-

तादृश उपस्थितः । जात इत्यर्थः । एवं चैतादृशविनय प्रदर्शनमप्यन्यादृशमेव मे भातीति

व्यज्यते । पक्षे विनयो मुखे यस्य । न तु हृदय इति भावः । दुर्लक्ष्यः । विनयमुखत्वा -

देवेत्युभयत्र भावः । दुरवगाहेत्यादेः प्राग्वदेव । प्रियजनेऽपि विप्रियं विदधानः । प्रिये

विनयप्रदर्शनस्योदासीनत्वादिति भावः । पक्षे प्राग्वत् । हे सखि, खल इव तव कोपः ।

एवं चैतादृशकोपकरणमनुचितं तवेति भाव इत्यर्थः ॥
 

 
कथमियमुपरिविवाहोत्सवं नावलोकयतीति वादिनं विदिततद्वृत्तान्तः कश्चिद्वति-
-
 
स्वेदसचेलस्नाता सप्तपदी सप्त मण्डलीर्यान्ती ।
 

समदनदहनविकारा मनोहरा ब्रीडिता नमति ॥ ६१७ ॥
 

 
स्वेदेति । स्वेदेन । त्वद्दर्शन जेनेति भावः । सवसनस्नानशालिनी । सप्तपदसमाहाररूपा

सप्त मण्डलीरतिक्रामन्ती । मदनरूपो यो दहनस्तस्य यो विकारस्तत्सहिता। चित्तहारिणी ।

लज्जिता नम्रीभवति । एवं चानया त्वच्चित्तमपहृतम्, अत एवाग्निदिव्ये स्वेदरूपजले

सवसन फ्रुता सप्तपदीरूपसप्तमण्डलातिक्रमकारिणी मदनरूपाग्निदाहशालिनी संजाताशु •

द्धिमत्तया लज्जावशान्नोर्ध्वमीक्षत इति भावः । एवं च त्वद्विषयकलज्जावशादेवमुन्नीयते

यदियं विहितेऽपि विवाहे न त्वां त्यक्ष्यतीति व्यज्यते । अन्योऽपि तस्करः संजातदिव्य-

दूषणः किमिदानीं वक्तव्यं मयेति विगलितधिषणोऽधस्तादेव विलोकयन्नास्त इति लौकि-

कम् । यद्वा नायको नायिकासखीं वक्ति – एवं चेयं मन्मनोरूपवस्तु हृतवती वैवाहिक -

च्छद्मदिव्येऽपि शुद्ध्यभाववती समपहृतवस्त्वददती मयेयं भुजपाशेन बद्धा निर्दयं मर्द-

यित्वा मुष्टयभिघातैरुरसि ताडयित्वा दन्तनखक्षतैश्च क्लेशभागिनी विधेया तत्रभवत्या

नैतत्यक्षरक्षणं क्षणमपि विधेयमिति व्यज्यते । तेन च कृतविवाहामध्येनां न मुञ्चामीति ।