This page has been fully proofread once and needs a second look.

भावः । अत एव गेहिनीति पदमर्थवत् । एवं च सर्वदा स्वामिचरणपरिचरणं स्वयमेव
विधेयम्, न तु गृहव्यापारवशाद्दास्यादिनेति ध्वन्यते । 'तस्याः' इति पाठे नायिकायाः ।
सान्तर्भयम् । न ज्ञातव्योऽनया नायकीय मत्सङ्ग इति घिधियेति भावः । इतरत्सुगमम् ॥
 
नायको नायिकां वक्ति--
 
सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखी कान्तिम् ।
पतति तथा समदृष्टिस्त्वदेकदासस्य सासूया ॥ ६१२ ॥
 
सुन्दरीति । हे सुन्दरि, तस्यास्त्वत्सपत्न्याः सखी भवद्विपक्षस्य त्वत्सपत्न्याः कान्तितिं
यथा दर्शयति तथा त्वन्मात्रदासस्य मम । एवं च त्वदतिरिक्तायाः शोभाकथनं कथं
मया सोढुं शक्यमिति व्यज्यते । सद्वेषा दृष्टिः पतति । अर्थात्त्वद्विपक्षे । एवं च न मया-
नुरागवशात्त्वद्विपक्षावलोकनं कृतं किं तु क्रोधवशादिति भावः ॥
 
सपत्नीदुःखितां कान्तां नायकसखी वक्ति--
 
स्वाधीनैररव्रणनखाङ्कपत्त्रावलोपदिनशयनैः ।
सुभगा सुभगेत्यनया सखि निखिला मुखरिता पल्ली ॥ ६१३ ॥
 
स्वाधीनैरिति । हे सखि, स्वयं कर्तुं शक्यैर्दन्तक्षतनखक्षतपत्त्रवल्लीप्रोञ्छनदिवाखास्वापैः
सुभगेत्यनया । त्वत्सपत्न्येत्यर्थः । समग्रापि पल्ली वाचालीकृता । पल्लीपदेन जाड्यं तेन
च यथार्थज्ञानशून्यत्वं तेन चैतद्वचनमप्रमाणमिति व्यज्यते । निवारणानर्हत्वं वा । मुख-
रितेत्यनेन वचस्युपेक्षणीयत्वं व्यज्यते । एवं च नायको नैतस्यामनुरक्तो न वा तत्कृतानि
दन्तक्षतादीनि, किं तु मिथ्यैव लोके स्वसौभाग्यप्रकटनायानया स्वयमेव संपादिता-
नीति विज्ञाय नायके मानादिकरणमनुचितं तवेति ध्वन्यते ॥
 
काचित्कांचिद्वक्ति--
 
सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्यः ।
क्षारास्वेव स तृप्यति जलनिधिलहरीषु जलद इव ॥ ६१४ ॥
 
सरित इति । यस्य सदने सरित इव श्रेष्ठान्वयजाताः । पक्षे महत्तराद्रिजन्याः ।
नार्यः शुष्यन्ति । दुःखोद्रेकवशादिति भावः । स क्षारास्वेव । नीरसास्वेवेत्यर्थः । समुद्र-
लहरीषु मेघ इव तृप्यति । एवं च यः कुलीनस्वनायिकासु नाभिनन्दति तस्य नीरसना-
यिकावाप्तिरेव भवतीति व्यज्यते । यद्वा पराङ्गनालम्पटं नायकं नायिका वक्ति--जलनि
घि
-
धि
पदेन नीचजन्यत्वमन्याङ्गनासु ध्वन्यते । जलदपदेन नायके मालिन्यं व्यज्यते ॥
 
नायकदूती नायिकां वक्ति--
 
सकलकटकैकमण्डिनि कठिनीभूताशये शिखरदन्ति ।
गिरिभुव इव तव मन्ये मनः शिला समभवञ्च्चण्डि ॥ ६१
 
सकलेति । निखिलकटकमुख्यभूषणे । पक्षे कटकोऽद्रिनितम्बः । कठोरहृदये । पक्षे
कठिनी खटिका । पद्मरागरूपरदे । पक्षे शिखरं शृङ्गम् । हे कोपने, पर्वतभूमेरिव तव