This page has not been fully proofread.

२०२
 
काव्यमाला ।
 
भावः । अत एव गेहिनीति पदमर्थवत् । एवं च सर्वदा स्वामिचरणपरिचरणं स्वयमेव

विधेयम्, न तु गृहव्यापारवशाद्दास्यादिनेति ध्वन्यते । 'तस्याः' इति पाठे नायिकायाः ।

सान्तर्भयम् । न ज्ञातव्योऽनया नायकीय मत्सङ्ग इति घियेति भावः । इतरत्सुगमम् ॥

 
नायको नायिकां वक्ति-
-
 
सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखी कान्तिम् ।

पतति तथा समदृष्टिस्त्वदेकदासस्य सासूया ॥ ६१२ ॥

 
सुन्दरीति । हे सुन्दरि, तस्यास्त्वत्सपत्न्याः सखी भवद्विपक्षस्य त्वत्सपत्न्याः कान्ति

यथा दर्शयति तथा वन्मात्रदासस्य मम । एवं च त्वदतिरिक्तायाः शोभाकथनं कथं

मया सोढुं शक्यमिति व्यज्यते । सद्वेषा दृष्टिः पतति । अर्थात्त्वद्विपक्षे । एवं च न मया-

नुरागवशात्त्वद्विपक्षावलोकनं कृतं किं तु क्रोधवशादिति भावः ॥

 
सपत्नीदुःखितां कान्तां नायकसखी वक्ति-
-
 
स्वाधीनैरघरव्रणनखाङ्कपत्रावलोपदिनशयनैः ।
 

सुभगा सुभगेत्यनया सखि निखिला मुखरिता पल्ली ॥ ६१३ ॥

 
स्वाधीनैरिति । हे सखि, स्वयं कर्तुं शक्यैर्दन्तक्षतनखक्षतपत्रवल्लीप्रोञ्छनदिवाखापैः

सुभगेत्यनया । त्वत्सपत्न्येत्यर्थः । समग्रापि पल्ली वाचालीकृता । पल्लीपदेन जाड्यं तेन

च यथार्थज्ञानशून्यत्वं तेन चैतद्वचनमप्रमाणमिति व्यज्यते । निवारणानर्हत्वं वा । मुख-

रितेत्यनेन वचस्युपेक्षणीयत्वं व्यज्यते । एवं च नायको नैतस्यामनुरक्तो न वा तत्कृतानि

दन्तक्षतादीनि, किं तु मिथ्यैव लोके स्वसौभाग्यप्रकटनायानया स्वयमेव संपादिता-

नीति विज्ञाय नायके मानादिकरणमनुचितं तवेति ध्वन्यते ॥
 
तु
 

 
काचित्कांचिद्वक्ति-
-
 
सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्यः ।
 

क्षारास्वेव स तृप्यति जलनिधिलहरीषु जलद इव ॥ ६१४ ॥

 
सरित इति । यस्य सदने सरित इव श्रेष्ठान्वयजाताः । पक्षे महत्तराद्रिजन्याः ।

नार्यः शुष्यन्ति । दुःखोद्रेकवशादिति भावः । स क्षारास्वेव । नीरसास्वेवेत्यर्थः । समुद्र-

लहरीषु मेघ इव तृप्यति । एवं च यः कुलीनवनायिकासु नाभिनन्दति तस्य नीरसना-

यिकावाप्तिरेव भवतीति व्यज्यते । यद्वा पराङ्गनालम्पटं नायकं नायिका वक्ति – जलनि

घिपदेन नीचजन्यत्वमन्याङ्गनासु ध्वन्यते । जलदपदेन नायके मालिन्यं व्यज्यते ॥

 
नायकदूती नायिकां वक्ति-
-
 
-
 

 
सकलकटकैकमण्डिनि कठिनीभूताशये शिखरदन्ति ।
 

गिरिभुव इव तव मन्ये मनः शिला समभवञ्चण्डि ॥ ६१९ ॥

 
सकलेति । निखिलकटकमुख्यभूषणे । पक्षे कटकोऽद्रिनितम्बः । कठोरहृदये । पक्षे

कठिनी खटिका । पद्मरागरूपरदे । पक्षे शिखरं शृङ्गम् । हे कोपने, पर्वतभूमेरिव तव