This page has not been fully proofread.

आर्यासप्तशती ।
 
काव्यानि विहितानि, परंतु न तत्र शैलरोदनमिति भावः । ग्रावा किमिति रोदिति ।
एवं चैतत्कृतकारुण्ये जामातृसंबन्धेन शैलस्यापि रोदनमिति भावः । अथवा । भवभूतेः
शिवैश्वर्यस्य संबन्धात् । तत्कृपात इत्यर्थः । भारती भूधरभूरेव । भूधर इति कवि-
नाम । भवभूतिरिति 'गिरिजायाः कुचौ वन्दे भवभूतिसिताननौ' इति पद्यकरणोत्तरं
पदवीनाम । तस्माद्भवत्वे दृश्येव जाता । एवं च सरस्वती प्रचारस्तत एवेत्यन्यकविव्य-
तिरेको ध्वन्यते । नन्वेतत्कवेर्भूधरत्वे किं प्रमाणमत आह–अन्यथा । एतत्कवेर्भूधर-
त्वाभावे । एतत्कृतकारुण्ये ग्रावा पाषाणः कथं रोदिति । एवं चैतत्कृतकारुण्योत्तर-
कालीनपाषाणरोदनस्यैतत्संबन्धाभावेऽन्यथानुपपत्त्या कवौ भूवरत्वसिद्धिः । एवं च
जन्यजनकभाव संबन्धाद्रोदने युक्ततैव । एवकार इवार्थ इति केचित् ॥
 
जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥ ३७ ॥
 
जातेति । प्राक्पूर्व यथा शिखण्डिनी द्रुपदपुत्री शिखण्डी द्रुपदपुत्ररूपा बभूव, तथा
वाणी सरस्वत्यधिकप्रागल्भ्यप्राप्त्यर्थ बाणः कादम्बरीकर्तृरूपा बभूव । पवर्गतृतीयान्त-
स्थबवकारयोरभेदादिति भावः । एवं च सरस्वतीतोऽधिकत्वं बाणे द्योत्यते । वस्तुतस्तु
बवयोरैक्ये दोषाद्भेद एव ॥
 
यं गणयन्ति गुरोरनु यस्यास्ते धर्मकर्म संकुचितम् ।
कविमहमुशनसमिव तं तातं नीलाम्बरं वन्दे ॥ ३८ ॥
यमिति । यं गुरोः प्रभाकरात् । एवं च तत्र प्रभाकरतन्त्रनिपुणत्वं तातस्यावेद्यते ।
पक्षे बृहस्पतेः । अनु पश्चाद्गणयन्ति । यस्यास्ते नाशे । पक्षे सूर्यमण्डलसांनिध्ये-
नादर्शने । धर्मकर्म संकुचितम् । तातसदृशस्यान्यस्य धर्मकर्मप्रवर्तकस्याभावादिति
भावः । पक्षे मलमास इव शुक्रास्तेऽपि केषांचित्कर्मणां निषेधादिति भावः । यद्वा
यस्य तातस्य धर्मकर्म । एवं चाधर्मकर्मणोऽभावो व्यज्यते । संकुचितं सम्यक् कौ पृ-
थिव्यां चितं व्याप्तम् । आस्ते । एवं च कर्मठत्वेन सर्वत्र तातप्रसिद्धिरिति भावः ।
यद्वा यस्याधर्मकर्मविषये संकुचितं संकोचः । भीतिरिति यावत् । आस्ते । कविं
काव्यकर्तारम् । पक्षे तन्नामानम् । उशनसमिव शुक्रमिव । तं प्रसिद्धं तातं नीलाम्ब-
राभिधं वन्दे ॥
 
सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुदबन्धोश्च ।
सेनकुलतिलकभूपतिरेको राकाप्रदोषश्च ॥ ३९ ॥
 
सकलेति । प्रबन्धस्य चतुःषष्टिकलाः । कुमुदबन्धोश्चन्द्रस्य च षोडशकलाः । क
१. सेनकुलं कायस्थकुलं वङ्गदेशप्रसिद्धम् तत्तिलकायमानो भूपतिर्लक्ष्मणसेनः, य
त्सभायां गोवर्धनाचार्य आसीत्. न तु सेतुबन्धकाव्यकर्ता कश्मीरमहाराजः प्रवरसेनः.
स तु क्षत्रियकुलावतंस आसीदिति राजतरङ्गिण्यां स्फुटमेव.