This page has not been fully proofread.

आर्यासप्तशती ।
 
कश्चित्कामी दुष्प्रापां नायिकामवलोक्य समीरमुद्दिश्य वक्ति
--
 
सनखपदमधिकगौरं नाभीमूलं निरंशुकं कृत्वा ।
 

अनया सेवित पवन त्वं किं कृतमलयभृगुपातः ॥ ६०८ ॥
 

 
सनखेति । नखक्षतसहितमत्यन्तगौरं नाभीमूलमंशुकरहितं कृत्वानया सेवित पवन,

त्वं कृतो मलयाचलंकटकात्पातो येन, एतादृशः किमिति वितर्कः । एवं च यदि त्वया

भृगुपातो न कृतः स्यात्तर्हि कथमनया विगलितलज्जया सेवितः स्यात्, अतस्तवैव तपस्या-

धिक्यमिति व्यज्यते । तेन च त्वमेव धन्य इति । यद्वैतदपेक्षया किमधिकतरफलमस्ति

यल्लिप्सया मलयभृगुपातस्त्वया कृत इति प्रश्नः । एवं चैतादृशसुखादन्यन्न पुरुषार्थरूप-

मिति व्यज्यते । रतोत्तरमपि समधिककामाविर्भावाद्रतार्थ पुनः प्रवृत्तां कान्तामालो-

क्याली नायकं वक्तीति वा ॥
 

 
अदृष्टवता श्रीस्तावदप्रयत्नेनापि लभ्यत इति कश्चिद्वक्ति-
-
 
सर्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।
 

अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ६०९ ॥
 

 
सर्वाङ्गमिति । निखिलाङ्गं समर्पयन्ती चञ्चला । अथ च लोलेति श्रीनाम । श्रीविंप-

रीतरतविधायिनीव शय्यायां श्रमेण सुप्तम् । एवं च शय्यादिरचनामात्रोद्योगशा-

लिलं व्यज्यते । उद्योगरहितमपि । अपिः प्रागप्यन्वेति । यद्वा लोलेत्यत्रान्वेति । अदृष्ट-

शालिनं भजते । पक्षे सुगमम् ॥
 

 
सुदिनं तदेव यत्र स्मारं स्मारं वियोगदुःखानि ।
 

आलिङ्गति सा गाढं पुनः पुनर्यामिनीप्रथमे ॥ ६१० ॥
 
२०१
 

 
सुदिनमिति । तदेव समीचीनं दिनं यस्मिन्विरहदुःखानि स्मृत्वा स्मृत्वा रात्र्याः प्रथमे ।

प्रहर इति भावः । वारं वारं दृढं सालिङ्गति । आलिङ्ग यिष्यतीत्यर्थः । त्रियामेति विहाय

यामिनीपदोपादानेन निखिलजने जागरूकेऽपि सायंतनसमय एव चालिङ्गनादिविधानेन

विगलितलज्जावं व्यज्यते । पथिकाशंसनमेतत् ॥
 

 
काचित्कांचिद्वक्ति-
-
 
'सान्तर्भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् ।

साशङ्कसेर्ष्यसभया तथा तथा गेहिनी तस्य ॥ ६११ ॥
 

 
सान्तर्भेयमिति । भुजिष्या दासी तस्य नायकस्यान्तर्भयसहितम् । स्वामिनी ज्ञास्यती ति

धियेति भावः । यथा यथा सम्यगधिकाम् । संमतानुरागवत्त्वादिति भावः । सेवामाच-

रति तथा तथा गेहिनी । एवं च गृहकर्मव्यावृततयैतादृशानुचिताचरणज्ञानवैधुर्ये व्यज्यते ।

साशङ्कानर्थ प्रतिभासहिता । किमिदानीमियं समधिकां सेवां करोतीति धियेति भावः ।

सेर्ष्या समत्सरा । प्रायेणेयमस्मिन्नतिमतीति धियेति भावः । सभया । लोकापवादादिति
 
आ० स० १८