2023-03-25 05:39:07 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
निजदयित एव रतिर्विधेया नान्यत्रेति वादिनीं सखीं नायिका वक्ति--
सखि सुखयत्यवकाशप्राप्तः प्रेयान्यथा तथा न गृही ।
वातावारितादपि भवति गवाक्षानिलः शीतः ॥ ६०५ ॥
सखीति । हे सखि । एवं च वास्तवाभिप्रायकथनार्हत्वमावेद्यते । अवकाशप्राप्तः ।
संकेतवशात्समय विशेषे समागत इत्यर्थः । प्रेयान्यथा सुखमुत्पादयति तथा निजः प्रेयान्न ।
अमुमेवार्थमर्थान्तरन्यासेन द्रढयति–--अवारितात् । महत इति भावः । वाताद्वातायन-
संबन्ध्यनिलः शीतस्तापापनोदकः । एवं चान्यनायकमवश्यमानयेति ध्वन्यते । यद्वा
निजदयितानुरक्तां नायिकामन्यदयितेन संयोजयितुं दूती वक्ति - --गृहीत्यनेनावारितादि-
त्यनेन च 'अर्थादौषधवत्कामः प्रभुत्वात्केवलं श्रमः । करवत्स्वेषु दारेषु त्रयादन्यत्र म
न्मथः ॥' इतिवत्ततुल्यन्यायतया नायिकाया अप्यधिकानुरागशालिपरपुरुषरतौ सुखा-
तिशय इति द्योत्यते । अथवा गृहीत्यनेन निरन्तरसदनावस्थितिशालितया स्वनायकः पर-
पुरुषाप्राप्तिसमयेऽपि भोक्तुं शक्य इति व्यज्यते । तेन चाधुना तमहमानयामीति ॥
निरन्तरं नितान्तकुपितां नायिकां सखी वक्ति--
सततमरुणितमुखे सखि निगिरन्ती गरलमिव गिरां गुम्फम् ।
अवगणितौषधिमन्त्रा भुजंगि रक्तं विरञ्जयसि ॥ ६०६ ॥
सततमिति । भुजंगीव भुजंगी तत्संबुद्धिः । एवं च तवान्तिकागमनेऽपि भीतिरुत्पद्यत
इत्यावेद्यते । निरन्तररक्तीकृतवदने । कोपवशादिति भावः । पक्षे स्वभावत एवारक्तव-
दनत्वम् । सखि, विषमिव वाचां गुम्फं गिरन्ती पक्षे गरलं गिरन्ती । अवगणितौषधि.-
मन्त्रा अवगणितौषधितुल्यविचारा । एवं यथौषधिः पीडाहारकतया सुखकारिणी तथा
सविचारा मदुक्तिस्ते हितकारिणी, अहो एनामपि न गणयसीत्यनुचितं तवेति ध्वन्यते।
पक्षे औषधमन्त्रादेरपि न यत्र सामर्थ्यमिति भावः । रक्तं जनं विरञ्जयसि विरक्तं
करोषि । पक्षे रुधिरवन्तं रुधिररहितं करोषि । एवं चैतादृशकोपवत्तया त्वया यत्रानुर-
-क्तोऽपि जनोऽनुरागशून्यः क्रियते तत्राननुरक्तानुरञ्जनं तव दूरापास्तमिति व्यज्यते ॥
कपटभावेनैवानयाश्वासनं क्रियते न वास्तवसात्त्विकतयेति कश्चित्कंचिदन्योक्त्या
वक्ति--
स्थलकमलमुग्धवपुषा सातङ्काङ्कस्थितैकचरणेन ।
आश्वासयति बिसिन्याः कूले बिसकण्ठिका शफरम् ॥ ६०७ ॥
स्थलेति । कमलिन्याः समीपे बलाका सत्रासं क्रोडे स्थित एकश्चरणो यस्य तेन स्थ-
लकमलवत्सुन्दरशरीरेण मत्स्यं विश्वासयति । एवं च मत्स्यस्य कमलभ्रमेण समीपमा-
गमनं भविष्यति ततश्चैतद्भोजनं विधेयमिति धिया तूष्णीमवतिष्ठत इति भावः । एवं चेयं
दुष्टा, अत एतद्विश्वासो न विधेय इति व्यज्यते ॥
सखि सुखयत्यवकाशप्राप्तः प्रेयान्यथा तथा न गृही ।
वातावारितादपि भवति गवाक्षानिलः शीतः ॥ ६०५ ॥
सखीति । हे सखि । एवं च वास्तवाभिप्रायकथनार्हत्वमावेद्यते । अवकाशप्राप्तः ।
संकेतवशात्समय
अमुमेवार्थमर्थान्तरन्यासेन द्रढयति
संबन्ध्यनिलः शीतस्तापापनोदकः । एवं चान्यनायकमवश्यमानयेति ध्वन्यते । यद्वा
निजदयितानुरक्तां नायिकामन्यदयितेन संयोजयितुं दूती वक्ति
त्यनेन च 'अर्थादौषधवत्कामः प्रभुत्वात्केवलं श्रमः । करवत्स्वेषु दारेषु त्रयादन्यत्र म
न्मथः ॥' इतिवत्
तिशय इति द्योत्यते । अथवा गृहीत्यनेन निरन्तरसदनावस्थितिशालितया स्वनायकः पर-
पुरुषाप्राप्तिसमयेऽपि भोक्तुं शक्य इति व्यज्यते । तेन चाधुना तमहमानयामीति ॥
निरन्तरं नितान्तकुपितां नायिकां सखी वक्ति--
सततमरुणितमुखे सखि निगिरन्ती गरलमिव गिरां गुम्फम् ।
अवगणितौषधिमन्त्रा भुजंगि रक्तं विरञ्जयसि ॥ ६०६ ॥
सततमिति । भुजंगीव भुजंगी तत्संबुद्धिः । एवं च तवान्तिकागमनेऽपि भीतिरुत्पद्यत
इत्यावेद्यते । निरन्तररक्तीकृतवदने । कोपवशादिति भावः । पक्षे स्वभावत एवारक्तव-
दनत्वम् । सखि, विषमिव वाचां गुम्फं गिरन्ती पक्षे गरलं गिरन्ती । अवगणितौषधि