2023-02-27 22:11:01 by ambuda-bot
This page has not been fully proofread.
आर्यासप्तशती ।
१९९
वेति भावः । सुभगत्वं
चाकस्मिकैतादृशनायिकासंपर्कवत्त्वादिति भावः । स्वपदेन भीति-
शून्यत्वं नायके, नायिकायां सख्यादिराहित्येन सहायशून्यत्वमावेद्यते । भित्तावित्यनेन
निर्गमाभाववत्त्वं द्योत्यते । भवतेत्यनेन बलात्कारो व्यज्यते ॥
।
नायिकासखी नायकं वक्ति-
सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ता ।
भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालेव ॥ ६०३ ॥
सेति । गुणाः सौन्दर्यादयः । पक्ष गुणः सूत्रम् । स्वभावेन सहजतया शुद्धान्तःक-
रणा । पक्षे स्वभावोज्ज्वला । करग्रहेण पाणिग्रहेण स्वाधीना । एवं च पातिव्रत्यमावे-
द्यते । पक्षे हस्तेन यदङ्गीकरणं तेनायत्ता । काश्मीरमालेव सुतनुः । एवं च स्पृहणीयत्वं
द्योत्यते । बहुविचारवता । अत्यन्तकलाकुशलेनेत्यर्थः । पक्षे बहुतरागमोक्तमन्त्रज्ञेन । एवं
च बहुतरजपशालित्वं द्योत्यते । भवता भ्रमिता । एवं च त्वत्संगत्या कदापि नैतस्या
विश्नान्तिरिति व्यज्यते । यद्वा सामान्यवनितासखी नायकं वक्ति – करग्रहेण स्वाधीना ।
न तु द्रव्यादिलोभेनेति भावः । स्वभावस्वच्छेत्यनेन सरलत्वं व्यज्यते । बहुमन्त्रविदाने-
कप्रकारकविचारवता । एवं च कापट्यशालित्वं द्योत्यते । भ्रमं प्रापिता । एवं चेयं
भ्रान्ता त्वामस्थिरप्रकृतिकं भजते, त्वं तु न किमपि वसु ददासीति व्यज्यते । अन्योऽपि
मन्त्रवेत्ता कंचिज्जनं भ्रान्तं विधाय तदीयसर्वखापहारं करोतीति लौकिकम् ॥
नायको नायिकां वक्ति-
सत्रीडस्मितसुभगे स्टष्टास्पृष्टेव किंचिदपयान्ती ।
अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ॥६०४॥
सव्रीडेति । हे ब्रीडासहितस्मितसुभगे, किंचित्स्पृष्टा किंचिदस्पृष्टा । एतादृश्येव ।
मयेति भावः । आकस्मि कसं जात संघट्टनेऽपि लोकभीतिवशादिति भावः । अत एव श्री
डास्मितवत्ता नायिकायाः । अपसरन्ती त्वं यथा तथा सुन्दरि, अपसरसि तथा मम हृ
दयं स्पृशसि । एवं चेदानीमहं नानुग्राह्यस्त्वया चेत्तदा न मे प्राणाः स्थास्यन्तीति व्य-
ज्यते । यद्वा स्पृष्टाप्यस्पृष्टैवाहमित्यपसरन्ती यथा यथापसरति तथा मम हृदयं स्पृशसि ।
एवं च नाहं त्वया स्पृष्टेति वादिन्य पसरसि हृदयं च स्पृशसी व्यपसरणानर्थक्यम्, अत एह्या-
लिङ्गस्व मामिति व्यज्यते । 'स्पष्टीभूत्वेव किंचिदपयान्ती' इत्यपि पाठः । 'षष्ठीं संपूज्य'
इति पाठेऽपि प्रसवनिमित्तक एव ब्रीडास्मिते किंचित्षष्ठीं संपूज्य । यथाकथंचित्षष्ठीं
पूजयित्वेत्यर्थः । यथा यथापसरसि तथा सुन्दरि, मम हृदयं स्पृशसि । 'षष्ठी पूज्येव'
इति पाठे पूज्या षष्ठीव त्वं यथा यथापसरसि तथा सुन्दरि, मय हृदयं स्पृशसि । एवं च
यथा षष्ठी यं स्पृशति स न जीवति, तथा कृतषष्ठीपूजया त्वया स्पृष्टं मम हृदयं न स्थितिं
प्राप्नोतीति व्यज्यते । तेन च ममालिङ्गनचुम्बनादि देहीति ॥