This page has not been fully proofread.

१९८
 
काव्यमाला ।
 
खरसेनेति । स्वेच्छया करं दण्डं बघ्नतां कुर्वताम् । आदाने अर्थात्करादाने कण्टक-
समूहैस्तुदताम् । खरसेनेत्यनेन कियदनेन भुक्तं कियन्नेति शोधशून्यत्वमावेद्यते । कण्ट-
कोत्करैस्तुदतामित्यनेन स्वेच्छया कृतमपि दण्डं शनैः शनैर्न गृह्णन्तीति ध्वन्यते । अथ
च स्वस्य रसेन द्रवेण करं हस्तं बनताम् । पनसरसस्य चिक्कणत्वादिति भावः । कण्ट-
कोत्करैस्तुदताम् । पनसस्य कण्टकबाहुल्यादिति भावः । पिशुनानां पनसानां च को-
षस्य भाण्डागारस्याभोमः संपर्कः । तद्विषयकाधिकारवत्त्वादिति भावः । अथ च कोष-
परिपूर्णता । सोऽपि । अपिर्विश्वासास्पदत्वमावेदयति । अथ च वृक्षसर्वदेशस्यापि कठि-
नत्वादिदोषसत्त्वात्समुच्चायकः । अविश्वास्यः । एवं च कोषोऽप्येभिरस्मासु विनिहित इति
घिया न सुधिया पिशुनाः सेव्या इति व्यज्यते ॥
 
सरलतया मानाद्यविधायिनीं भामिनीं सखी समुपदिशति-
सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणीनाम् ।
 
वामार्धमेव देव्याः स्ववपुःशिल्पे निवेशयता ॥ ६०१ ॥
 
सौभाग्यमिति । खशरीरस्य चित्रे । शिल्प इत्यनेन कार्याक्षमेऽषि वपुपि वामार्धस्यै-
वादरः, तत्र का वार्ता कार्यक्षमे वपुषीति व्यज्यते । देव्या वामार्धमेव सव्यसमांशकमेव ।
देवीदक्षिणशरीरभागस्य शिवरूपत्वादिति भावः । अर्घमित्यनेन दक्षिणैकदेशस्याप्य निवेश-
नेन तत्र न केवलमौदासीन्यम्, अपि तु द्वेषवत्तेति ध्वन्यते । स्थापयता हरेण तरुणीनां
दाक्षिण्यात्सरलत्वात्सौभाग्यं नेत्युपदिष्टम् । हरपदेन हरति सर्वस्य दुःखमिति व्युत्पत्त्या
करुणावतापि भगवतानङ्गीकारेण करुणारहितस्यान्यसर्वनायकस्य दाक्षिण्यं न प्रीतिविषय
इति व्यज्यते । यद्वोपदेशदानार्हत्व मथवोपदेशे याथातथ्यम् । एवं चश्लिष्टाभ्यां वामद-
क्षिणपदाभ्यां कौटिल्यादेव तरुणीनां सौभाग्यं न सरलतयेति ध्वन्यते । तरुणीनामित्य-
नेनान्त्ये वयसि दाक्षिण्यमुचित मित्यावेद्यते। उपदिष्टमित्यनेनान्यथासंभावनमनुचितमिति
ध्वन्यते । एवं च सरलतां विहाय मानाद्यवश्यं त्वया विधेयमिति ध्वन्यते । यद्वा कौटि-
ल्यशालिनं नायकं नायिकासखी वक्ति - खवपुः शिल्पे देव्या वामार्धमेव निवेशयता
हरेण दाक्षिण्यात्सौभाग्यं नेति तरुणीनामुपदिष्टम् । न तु पुंसाम् । एवं च स्त्रीणामेव
वाम्यकरणमुचितम्, न तु पुंसामिति ध्वन्यते । यद्वा तरुणीनामेवेति योजना ॥
नायिकासखी नायकं वक्ति-
सुभग स्वभवनभित्तौ भवता संमद्ये पीडिता सुतनुः ।
 
सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥ ६०२ ॥
 
सुभगेति । हे सुभग, स्वसदनभित्तौ सम्यङ् मर्दयित्वा पीढिता सुतनुर्वैयेषु विशेषद्वेषं
दधती सा पीडयैव जीवति । एवं च लत्कृतपीडा यत्र तस्या जीवननिदानं तत्र किं
वाच्यं त्वत्सङ्ग इति व्यज्यते । उत्सववशात्त्वद्भवनमागतां बलादबलां लया दृढालिङ्गना-
दिना संपीड्यानुरागातिशयशालिनीं विधायेदानीमुदासीनवत्स्थीयत इत्येतदनुचिततरं त-
Sri Gurgeshwon Digital Foundation