This page has been fully proofread once and needs a second look.

हिणीचेतोऽपि तमःसमुदायम् । तमःशब्देनाज्ञानं ध्वान्तं च । सोऽपि तमःसमूहोऽप्य-
तिशयेन नभो विशति । अनलेत्यादि पञ्चपदद्वितीयया कर्मत्वप्रतिपादनादीप्सिततमत्वेन
स्वेच्छया तत्र तत्र तस्य तस्य कृतप्रवेशस्य निवारणानर्हत्वमावेद्यते । एवं च यथा यथा
रात्रिर्गमिष्यति तथा तथा मच्चेतसः शून्यरूपता भवित्रीति धरित्रीतले त्वद्यदृते नान्यां मम
प्राणप्रदां मन्य इत्यतस्त्वरस्खावाधुनैव प्रियतमानयनार्थमिति ध्वन्यते ॥
 
काचित्कंचित्संकेतं वक्ति--
 
स्मरसमरसमयपूरितकम्बुनिभो द्विगुणपीनगलनालः ।
शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति ॥ ९७ ॥
 
स्मरेति । मदनयुद्धसमये । 'मदनवीरसमर' इत्यपि पाठः । पूरितो यः शङ्खस्तत्तुल्य-
द्विगुणितपुष्टकण्ठनालः कपोतो जयेच्छावानिव जर्जरप्रासादोपरि कूजति । शीर्णपदेना-
न्यानारोहणीयत्वं ध्वन्यते । प्रासादपदेन श्रमापनोदकसमीरणवत्तया निर्भररतसंपादनयो-
ग्यत्वं व्यज्यते । उपरिपदमन्यानवलोकनीयत्वमावेदयति । कलरवपदेनोद्दीपकत्वं द्योत्यते ॥
 
फूत्कृत्य रुदतीं सुदतीं सखी शिक्षयति--
 
स्फुरदधरमविरताश्रु ध्वनिरोधोत्कम्पकुचमिदं रुदितम् ।
जानूपनिहित हस्तन्यस्तमुखं दक्षिणप्रकृतेः ॥ ५९८ ॥
 
स्फुरदधरमिति । स्फुरन्नधरो यस्मिन् । निबिडबाष्पम् । ध्वनिनिरोधेनोत्कट कम्प-
वन्तौ कुचौ यस्मिन् । जानुस्थापित[हस्तन्यस्त] वदनम् । इदमेतादृशप्रकारशालि रुदितं
सरलप्रकृतेः । एवं चैतदन्यथाचरणं तवानुचितमिति ध्वन्यते । 'स्फुरदधरश्वासम्' इत्यपि
पाठः । यद्वैतादृशरोदने कस्यापि ज्ञानं न भविष्यतीति फूत्कृत्य रोदनं तवोचितमिति
सखी नायिकां वक्ति ॥
 
काचित् सामान्यवनिता कांचित् सामान्यवनितां भङ्ग्यन्तरेण वक्ति--
 
स्वयमुपनीतैरशनैः पुष्णन्ती नीडनिर्वृतं दयितम् ।
सहजप्रेमरसज्ञा सुभगागर्वं बकी वहतु ॥ ५९९ ॥
 
स्वयमिति । स्वयमाहृतैर्भक्ष्यैः कुलायमुसुखितं दयितं पुष्णन्ती, अकृत्रिमप्रेमरसाभिज्ञा
बलाका सौभाग्यशालिनी गर्वेवं वहतु । सुभगेति भिन्नं पदं वा । एवं च यया स्वद्रव्येण
नायकपोषणं क्रियते सैव रसाभिज्ञा सौभाग्यवतीनां गर्वमुद्हतु नापरस्यास्तद्वहनमुचि-
तमिति ध्वन्यते ॥
 
दुष्टप्रभुणा कोषाधिकारे दत्तेऽपि प्रभुरयं मय्यतीव विश्वस्त इति घिधिया तत्सेवनमु-
चितं नेति कश्चित्कंचिद्वक्ति--
 
स्वरसेन बघ्ध्नतां करमादाने कण्टकोत्करैस्तुदताम् ।
पिशुनानां पनसानां कोषाभोगोऽप्यविश्वास्यः ॥ ६०० ॥