2023-03-25 04:15:09 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
कप्रेमवती । यद्वा शृङ्गारादिमती । बहुहर्षवती बहुजलवती च । बहुविवर्ता बहुकापट्य-
वती अनेकप्रकारवती बहुजलभ्रमणवती च । असतीनयनानां प्रेम्णां नदीनां च गतिः
कटाक्षादिः स्थितिर्गमनं चेति भवती न वेद । एवं च प्रेम्णि भङ्गादिकं नियतमस्तीत्यत
एतत्संरक्षणं दुष्करम्, अतोऽत्यन्ताभिमानं परित्यज्य नायकसमाधानं कुर्विति ध्वन्यते ॥
नायिका सखीं वक्ति--
सखि मध्याह्नद्विगुणद्युमणिकरश्रेणिपीडिता छाया ।
मज्जितुमिवालवाले परितस्तरुमूलमाश्रयति ॥ ५९४ ॥
सखीति । हे सखि । एवं च रहस्यकथनार्हत्वं व्यज्यते । मध्याह्ने द्विगुणीभूता या
सूर्यकिरणश्रेणिस्तया पीडिता छाया आलवाले मज्जितुमिव समन्ताद्वृक्षमूलमाश्रयति । एवं
चैतादृशनिदाघकाले न कोऽपि खगेहाद्गच्छतीत्युपवने नायकं नय, अहमप्यधुना तत्रा-
गतप्रायेति ध्वन्यते । यद्वा सखी नायिकां वक्ति । एवं च यत्र प्रखररविकरनिकरखिन्ना
प्राणानपि त्यक्तुकामा जडापि छायां स्वाश्रयं न परित्यजति, तत्र किमु वाच्यं त्वया
पतिपदारविन्दं विहाय क्षणमपि खेदवत्त्वेऽपि दूरे स्थेयमिति द्योत्यते ॥
'मत्प्रियो मय्यतिशयितानुरागवान्' इति वादिनीं कांचित्काचिद्वक्ति--
सखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः ।
तन्नगरग्रामनदीः पृच्छति सममागतानन्यान् ॥ ५९५ ॥
·सखीति । हे सखि, शृणु । शृण्वित्यनेन त्वदुक्तिरकिंचित्करेति ध्वन्यते । अयं मम
प्रियः । परोक्षेऽप्यपरोक्षवन्निर्देशो नायके निरन्तरसंगतिशालित्वमावेदयति । गृहं येनैव
मार्गेणागतस्तत्संबन्धिनगरग्रामनदीः स्वसहागतानन्यान्पृच्छति । एवकारेणादृष्टमार्गीयन-
गरादिप्रश्नकरणमुचितमिति ध्वन्यते । एवं च मन्नायको मय्येतादृशानुरागवान् यच्चिरकाली-
नमार्गेणागतोऽप्यवश्यविज्ञेयपत्तनादिज्ञानाभाववानिति मन्नायकतुल्यो न त्वन्नायको न
वा मत्तुल्या त्वमिति ध्वन्यते । यद्वा प्रिये मानादिकं त्वया विधेयमिति वादिनीं सखीं ना-
यिका वक्ति--सखीति । शृण्वित्यस्यानुपादानेऽपि श्रवणक्रियाप्रतीतेरनुपयुक्तार्थतया शृ-
ण्विति पदमवधारणं लक्षयति । एवं च मदुक्तौ नाप्रामाण्यमाशङ्कयमिति ध्वन्यते । एवं
च मन्निमग्नचित्ततया प्रियतमः स्वयमुल्लङ्घितवर्त्मस्थितानेककौतुकनिधाननगरादिज्ञाना-
भाववान्, अत एतादृशे मानादिविधानेन दुःखजननमनुचितमिति द्योत्यते ॥
वियोगिन्याः सायंतनसमयोऽत्यन्तदुःखद इति नायिका सखीं वक्ति--
सायं रविरनलमसौ मदनशरं स च वियोगिनीचेतः ।
इदमपि तमःसमूहं सोऽपि नभो निर्भरं विशति ॥ ५९६ ॥
सायमिति । अत्र सखीति पदानुपादानं तावद्वर्णोच्चारणेऽपि कालातिपातो भवतीति
भाविसायंतनसमयस्यातिदुःखदत्वमित्यावेदयति । सायंतनसमये सूर्योऽनलं विशति । अ-
सावनलो मन्मथशरं विशति । स च मन्मथशरो विरहिणीचेतो विशति । इदमपि विर-