This page has not been fully proofread.

काव्यमाला ।
 

 
कप्रेमवती । यद्वा शृङ्गारादिमती । बहुहर्षवती बहुजलवती च । बहुविवर्ता बहुकापट्य-

चती अनेकप्रकारवती बहुजलभ्रमणवती च । असतीनयनानां प्रेम्णां नदीनां च गतिः

कटाक्षादिः स्थितिर्गमनं चेति भवती न वेद । एवं च प्रेम्णि भङ्गादिकं नियतमस्तीत्यत

एतत्संरक्षणं दुष्करम्, अतोऽत्यन्ताभिमानं परित्यज्य नायकसमाधानं कुर्विति ध्वन्यते ॥

 
नायिका सखीं वक्ति-
-
 
सखि मध्याहद्विगुणद्यमणिकर श्रेणिपीडिता छाया ।
 

मज्जितुमिवालवाले परितस्तरुमूलमाश्रयति ॥ १९४ ॥
 

 

 
सखीति । हे सखि । एवं च रहस्यकथनार्हत्वं व्यज्यते । मध्याह्ने द्विगुणीभूता या

सूर्यकिरणश्रेणिस्तया पीडिता छाया आलवाले मजितुमिव समन्ताद्वृक्षमूलमाश्रयति । एवं

चैतादृशनिदाघकाले न कोऽपि खगेहाद्गच्छतीत्युपवने नायकं नय, अहमप्यधुना तत्रा-

गतप्रायेति ध्वन्यते । यद्वा सखी नायिकां वक्ति । एवं च यत्र प्रखररविकरनिक रखिन्ना

प्राणानपि त्यक्तुकामा जडापि छायां खाश्रयं न परित्यजति, तत्र किमु वाच्यं त्वया

पतिपदारविन्दं विहाय क्षणमपि खेदवत्त्वेऽपि दूरे स्थेयमिति द्योत्यते ॥

 
'मत्प्रियो मय्यतिशयितानुरागवान्' इति वादिनीं कांचित्काचिद्वक्ति-
-
 
सखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः ।
 

तन्नगरग्रामनदीः पृच्छति सममागतानन्यान् ॥ १९५ ॥
 

 
·सखीति । हे सखि, शृणु । शृण्वित्यनेन त्वदुक्तिरकिंचित्करेति ध्वन्यते । अयं मम

प्रियः । परोक्षेऽप्यपरोक्षवन्निर्देशो नायके निरन्तरसंगतिशालित्वमावेदयति । गृहं येनैव

मार्गेणागतस्तत्संबन्धिनगरग्रामनदीः स्वसहागतानन्यान्पृच्छति । एवकारेणादृष्टमार्गीयन-

गरादिप्रश्नकरणमुचित मिति ध्वन्यते । एवं च मन्नायको मय्येतादृशानुरागवान्यच्चिरकाली-

नमार्गेणागतोऽप्यवश्य विज्ञेयपत्तना दिज्ञानाभाववानिति मन्नायकतुल्यो न त्वन्नायको न

वा मत्तल्या त्वमिति ध्वन्यते । यद्वा प्रिये मानादिकं त्वया विधेयमिति वादिनीं सखीं ना-

यिका वक्ति—सखीति । शृण्वित्य स्यानुपादानेऽपि श्रवणक्रियाप्रती तेरनुपयुक्तार्थतया ट

ण्विति पदमवधारणं लक्षयति । एवं च मदुक्तौ नाप्रामाण्यमाशङ्कयमिति ध्वन्यते । एवं

च मन्निमग्नचित्ततया प्रियतमः स्वयमुल्लतिवर्त्मस्थिता नेककौतुक निधाननगरादिज्ञाना-

भाववान्, अत एतादृशे मानादिविधानेन दुःखजननमनुचितमिति द्योत्यते ॥

 
वियोगिन्याः सायंतनसमयोऽत्यन्तदुःखद इति नायिका सखीं वक्ति-
-
 
सायं रविरनलमसौ मदनशरं स च वियोगिनीचेतः ।

इदमपि तमःसमूहं सोऽपि नभो निर्भरं विशति ॥ ५९६ ॥

 
सायमिति । अत्र सखीति पदानुपादानं तावद्वर्णोच्चारणेऽपि कालातिपातो भवतीति

माविसायंतनसमयस्यातिदुःखदत्वमित्यावेदयति । सायंतनसमये सूर्योऽनलं विशति । अ-

सावनलो मन्मथशरं विशति । स च मन्मथशरो विरहिणीचेतो विशति । इदमपि विर-
Gorgeskuan Digital Foundation