2023-03-25 04:03:35 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
सखी सामान्य वनितामुपदिशति--
सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी ।
अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥ ५९० ॥
सौभाग्येति । यूथस्य करिसमूहस्य भूषणं करिणी एका सौभाग्यस्य गर्नेवं करोतु ।
अत्युच्चनोर्मदशालिनोर्या मध्यमधिवसति । एवं च सर्वनायकसमाधानं त्वया विधेयमिति
ध्वन्यते ॥
पतिमवमत्य तत्सखीवचनादिकमप्युपेक्ष्य पश्चात्परितप्ता सती स्वयमेव प्रियस विधमा-
गता सखीपरिवृतं तमालोक्य तासु स्वलघुतागोपनाय नायिका नायकं वक्ति--
स्वचरणपीडानुमितत्वन्मौलिरुजाविनीतमात्सर्या ।
अपराद्धा सुभग त्वां स्वयमहमनुनेतुमायाता ॥ ५९१ ॥
स्वचरणेति । स्वचरणपीडयानुमिता या त्वन्मस्तकपीडा तया विशेषेणापहृतमात्सर्या ।
स्वयं कृतापराधा । पतिविहितप्रणतावपि कोपकरणादिति भावः । सुभग । विना प्र-
यत्नं मदागमनादिति भावः । त्वामनुनेतुमहमायाता । एवं चानेन प्रियतमेन बहुतर-
प्रणामादिना मदनुनयः कृतोऽस्तीति व्यज्यते । यद्वा स्वयमेवोत्कण्ठिता नायिका नाय..-
कसविध आगता, तत्र च तत्संख्यादिकमवलोक्यानाकारितागमन संभाव्यमानलाघवप-
रिहाराय मृषैव वक्ति – --खचरणेति ॥
अनुरक्तजनक्लेशकर्तुः सेनादिकं न सम्यक् किं तु प्रबलविपक्षविद्रावकस्येति क-
श्चिद्वक्ति--
स्नेहमयान्पीडयतः किं चक्रेणापि तैलकारस्य ।
चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥ ५९२ ॥
स्नेहमयानिति । तैलप्रचुरान् । अथ च प्रीतिप्रचुरान् । पीडयतस्तैलकारस्य चक्रे-
णापि यन्त्रविशेषेणापि । अथ च सेनयापि । 'शस्त्रभेदे च सेनायां चक्रम्' इत्यभिधानात् ।
अपिना कोषादिसंग्रहः । यः पार्थिवान्पृथिवी विकारान्घटादीन् । अथ च महीपतीन् ।
चालयति भ्रामयति । अथ च स्वस्थानभ्रष्टान्करोति । स कुलालोऽपि । अपिना निन्द्य-
त्वमावेद्यते । परमुत्कृष्टं चक्रवान् यन्त्रविशेषवान् । अथ च सेनावान् । यद्वा यथास्थित
एवापिः । एवं च सामर्थ्यविशेषवत्त्वमावेद्यते । एवं च सेनादिसत्त्वमात्रेण न प्रतिष्ठा,
किं तुखास्वानुरक्तसंरक्षणपर विद्रावणरूपकार्यकारितयेति व्यज्यते ॥
सखी नायिकां वक्ति--
सरले न वेद भवती बहुभङ्गा बहुरसा बहुविवर्ता ।
गतिरसतीनेत्राणां प्रेम्णां स्रोतस्वतीनां च ॥ ५९३ ॥
सरल इति । हे सरले, बहुभङ्गा भङ्गो वक्रता विच्छेदस्तरङ्गश्च । बहुरसा बहुविषय-
सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी ।
अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥ ५९० ॥
सौभाग्येति । यूथस्य करिसमूहस्य भूषणं करिणी एका सौभाग्यस्य गर्
अत्युच्चनोर्मदशालिनोर्या मध्यमधिवसति । एवं च सर्वनायकसमाधानं त्वया विधेयमिति
ध्वन्यते ॥
पतिमवमत्य तत्सखीवचनादिकमप्युपेक्ष्य पश्चात्परितप्ता सती स्वयमेव प्रियस
गता सखीपरिवृतं तमालोक्य तासु स्वलघुतागोपनाय नायिका नायकं वक्ति--
स्वचरणपीडानुमितत्वन्मौलिरुजाविनीतमात्सर्या ।
अपराद्धा सुभग त्वां स्वयमहमनुनेतुमायाता ॥ ५९१ ॥
स्वचरणेति । स्वचरणपीडयानुमिता या त्वन्मस्तकपीडा तया विशेषेणापहृतमात्सर्या ।
स्वयं कृतापराधा । पतिविहितप्रणतावपि कोपकरणादिति भावः । सुभग । विना प्र-
यत्नं मदागमनादिति भावः । त्वामनुनेतुमहमायाता । एवं चानेन प्रियतमेन बहुतर-
प्रणामादिना मदनुनयः कृतोऽस्तीति व्यज्यते । यद्वा स्वयमेवोत्कण्ठिता नायिका नाय
कसविध आगता, तत्र च तत्संख्यादिकमवलोक्यानाकारितागमन
रिहाराय मृषैव वक्ति
अनुरक्तजनक्लेशकर्तुः सेनादिकं न सम्यक् किं तु प्रबलविपक्षविद्रावकस्येति क-
श्चिद्वक्ति--
स्नेहमयान्पीडयतः किं चक्रेणापि तैलकारस्य ।
चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥ ५९२ ॥
स्नेहमयानिति । तैलप्रचुरान् । अथ च प्रीतिप्रचुरान् । पीडयतस्तैलकारस्य चक्रे-
णापि यन्त्रविशेषेणापि । अथ च सेनयापि । 'शस्त्रभेदे च सेनायां चक्रम्' इत्यभिधानात् ।
अपिना कोषादिसंग्रहः । यः पार्थिवान्पृथिवी विकारान्घटादीन् । अथ च महीपतीन् ।
चालयति भ्रामयति । अथ च स्वस्थानभ्रष्टान्करोति । स कुलालोऽपि । अपिना निन्द्य-
त्वमावेद्यते । परमुत्कृष्टं चक्रवान् यन्त्रविशेषवान् । अथ च सेनावान् । यद्वा यथास्थित
एवापिः । एवं च सामर्थ्यविशेषवत्त्वमावेद्यते । एवं च सेनादिसत्त्वमात्रेण न प्रतिष्ठा,
किं तु