This page has been fully proofread once and needs a second look.

अथ च वर्तुलाः । पोषकस्य । अथ च धारकस्य । कृत्यं न त्यजन्ति । अर्थान्तरन्यास-
माह - --बलवता । एवं च निवारणानर्हत्वं ध्वन्यते । हस्त आकृष्टे कङ्कणानि धावन्ति
शब्दं कुर्वन्ति च । एवं च सुवृत्तत्वादचेतना वलया अप्येवमाचरन्ति तत्र का वार्ता स-
चेतसामिति भावः ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता शकारव्रज्या ।
------------------------------------
 
षकारव्रज्या ।
 
नायको नायिकां वक्ति--
 
षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा ।
त्वां मुष्टिमेयमध्यामधुना शक्तितिं स्मरो वहति ॥ ८७ ॥
 
षट्चरणेति । भ्रमररूपकीटसेवितम् । मदनधनुर्मौर्व्या मधुकररूपत्वादिति भावः । प-
रागः पुष्परजस्तद्रूपकाष्ठचूर्णपूर्णम् । मदनधनुषः पुष्परूपत्वादिति भावः । आयुधम् ।
शरासनमित्यर्थः । त्यक्त्वा । स्मरोऽधुना मुष्टिना मेयो मध्यो यस्यास्ताम् । कृशत्वादिति
भावः । त्वां शक्तिं त्वद्रूपां शक्तितिं वहति । एवं च त्वामासाद्याधुना मदनवीरोऽतिप्रबलः
संवृत्त इति ध्वन्यते । 'वहतु' इति पाठे जातयौवनां त्वामासाद्य कंदर्प इदानीं जगज्जयं
करिष्यतीति ध्वन्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशती व्यङ्ग्यार्थदीपनया समेता षकारव्रज्या ।
---------------------------------
 
सकारव्रज्या ।
 
सपत्नीदुःखदुःखितां नायिकां नायकसखी वक्ति--
 
सा दिवसयोग्यकृत्यव्यपदेशा केवलं गृहिणी ।
द्वितिथेर्दिवसस्य परा तिथिरिव सेव्या निशि त्वमसि ॥ ८८ ॥
 
सेति । सा नायिका दिनयोग्यकार्यकरणात्तस्य केवलं गृहिणी । तिथिद्वयवतो दिवसस्य
संबन्धिनीं द्वितीयतिथिरिव रात्रौ त्वं सेव्यासि । गृहकार्यार्थमेव केवलं सा, त्वं तु सुरतसु-
खार्थमिति भावः । एवं च तस्यामीर्ष्या न विधेयेति ध्वन्यते ॥
 
सखी नायिकां वक्ति--
 
स्तन नूतन नखलेखालम्बी तव र्मविबिन्दुसंदोहः ।
माभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥ ८९ ॥
 
स्तनेति । त्वदीयस्तनसंबन्धितात्कालिकनखरेखालम्बी स्वेदबिन्दुसमूहः पट्टसूत्रे प्र-
विशन्मौक्तिक प्रकृष्टसर इव शोभते । नूतनप देन नखरेखायामारक्तत्वं ध्वन्यते । एवं चे-
दानींतनसुरतेन तवातिशयशालिशोभा संवृत्तेति ध्वन्यते । एवं चैतादृशप्रत्यक्षरतचिह्न-
दर्शनेऽपि न मया किंचित्कृतमिति वदसीत्यतस्त्वत्तुल्या नान्या प्रतारिकेति ध्वन्यते ॥