This page has not been fully proofread.

१९४
 
काव्यमाला ।
 
अथ च वर्तुलाः । पोषकस्य । अथ च धारकस्य । कृत्यं न त्यजन्ति । अर्थान्तरन्यास-

माह - बलवता । एवं च निवारणानर्हत्वं ध्वन्यते । हस्त आकृष्टे कङ्कणानि धावन्ति

शब्दं कुर्वन्ति च । एवं च सुवृत्तत्वादचेतना वलया अप्येवमाचरन्ति तत्र का वार्ता स-

चेतसामिति भावः ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता शकारव्रज्या ।
 

------------------------------------
 
षकारव्रज्या ।
 
नायको नायिकां वक्ति -
 
षकारव्रज्या ।
 
--
 
षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा ।
 

त्वां मुष्टिमेयमध्यामधुना शक्ति स्मरो वहति ॥ १८७ ॥

 
षट्चरणेति । भ्रमररूपकीटसेवितम् । मदनधनुर्मौर्व्या मधुकररूपत्वादिति भावः । प-

रागः पुष्परजस्तद्रूपकाष्ठचूर्णपूर्णम् । मदनधनुषः पुष्परूपत्वादिति भावः । आयुधम् ।

शरासनमित्यर्थः । त्यक्त्वा । स्मरोऽधुना मुष्टिना मेयो मध्यो यस्यास्ताम् । कृशत्वादिति

भावः । त्वां शक्तिं त्वद्रूपां शक्ति वहति । एवं च त्वामासाद्याधुना मदनवीरोऽतिप्रबलः

संवृत्त इति ध्वन्यते । 'वहतु' इति पाठे जातयौवनां त्वामासाद्य कंदर्प इदानीं जगजयं

करिष्यतीति ध्वन्यते ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशती व्यङ्गयार्थदीपनया समेता षकारव्रज्या ।
 

---------------------------------
 
सकारव्रज्या ।
 

 
सपत्नीदुःखदुःखितां नायिकां नायकसखी वक्ति
 
--
 
सा दिवसयोग्यकृत्यव्यपदेशा केवलं गृहिणी ।
 

द्वितिथेर्दिवसस्य परा तिथिरिव सेव्या निशि त्वमसि ॥ १८८ ॥

 
सेति । सा नायिका दिनयोग्यकार्यकरणात्तस्य केवलं गृहिणी । तिथिद्वयवतो दिवसस्य

संबन्धिनीं द्वितीयतिथिरिव रात्रौ त्वं सेव्यासि । गृहकार्यार्थमेव केवलं सा, त्वं तु सुरतसु-

खार्थमिति भावः । एवं च तस्यामीर्ष्या न विधेयेति ध्वन्यते ॥
 

 
सखी नायिकां वक्ति-
-
 
स्तन नूतन नखलेखालम्बी तव धर्मविन्दुसंदोहः ।
 

आमाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥ १८९ ॥

 
स्तनेति । त्वदीयस्तनसंबन्धितात्कालिकनखरेखालम्बी स्वेदबिन्दुसमूहः पट्टसूत्रे प्र-

विशन्मौक्तिक प्रकृष्टसर इव शोभते । नूतनप देन नखरेखायामारक्तत्वं ध्वन्यते । एवं चे-

दानींतनसुरतेन तवातिशयशालिशोभा संवृत्तेति ध्वन्यते । एवं चैतादृशप्रत्यक्षरतचिह्न-

दर्शनेऽपि न मया किंचित्कृतमिति वदसीत्यतस्त्वत्तुल्या नान्या प्रतारिकेति ध्वन्यते ॥
 
Digital Foundarion