This page has not been fully proofread.

आर्यासप्तशती ।
 
१९३
 
काक्का नेत्यर्थः । किं तु दृश्यादृश्यत्वेऽपि चन्द्ररेखेव दूरदृरैयवेति काक्का नेत्यर्थः । किं

तु निकटदृश्या । एवं चेन्न कुतः संगतिं संपादयसीत्यत्राह- दुष्टसर्पव्याप्ते केतकि, त्वं नो

न स्पृश्या । एवं च जीवनदान निदानतापापनोदन स्वरूपायास्तव नैकट्येऽपि खिड्गभिया

नास्माकमागमनं भवतीति व्यज्यते ॥
 

 
नायको नायिकादूत वक्ति-
-
 
श्रवणोपनीतगुणया समर्पयन्त्या प्रणम्य कुसुमानि ।

मदनधनुर्लतयेव त्वया वशं दूति नीतोऽस्मि ॥ ५८३ ॥
 

 
श्रवणेति । गुणः सौन्दर्यादिः । अर्थान्नायिकायाः । ज्या च । नमस्कृत्य । नमनं

प्राप्य च । पुष्पाणि । अर्थान्नायिकाप्रेषितानीति भावः । मदनबाणानां पुष्पमयत्वाच्च ।

समर्पयन्त्या मदनधनुर्लतयेव हे दूति, त्वया स्वाधीनतां प्रापितोऽस्मि । एवं च मया-

वश्यमागम्यत एवेति व्यज्यते ॥
 

 
कश्चित्कंचिदन्योक्त्या वक्ति --
 
--
 
शाखोटकशाखोटजवैखानस करटपूज्य रट सुचिरम् ।
 

नादरपदमिह गणकाः प्रमाणपुरुषो भवानेकः ॥ ५८४ ॥
 

 

 
शाखोटकेति । शाखोटकस्य वृक्षविशेषत्य शाखायामुटजं पर्णशाला तत्संबन्धिनो ये

मुनयः काकास्तेषु पूज्य । काक श्रेष्ठेति यावत् । यद्वा संबुद्धित्रयम् । चिरकालं रट ।

यत इह दैवज्ञा आदरस्थानं न । भवानेव प्रमाणपुरुषः । शुभाशुभ निर्णयार्थमिति भावः ।

एवं च त्वादृशमूर्खाधिष्ठितैतादृशस्थले नास्मादृशां विदुषां वचसामवकाश इति ध्वन्यते ॥

 
कस्यचिहूती कांचिद्वक्ति-
-
 
शशिरेखोपमकान्तेस्तवान्यपाणिग्रहं प्रयातायाः ।
 

मदनासिपुत्रिकाया इवाङ्गशोभां कदर्थयति ॥ १८५ ॥

 
शशीति । चन्द्रकलोपमेयशोभायाः । यद्वा चन्द्राङ्गश्रीसदृशशोभायाः । एवं च नि-

ष्कलङ्कतया तदुपमानत्वं युक्तमित्यावेद्यते । 'अङ्गश्रीः कथ्यते रेखा' इत्यभिधानात् ।

अन्यस्य पाणिग्रहं प्राप्तायास्तव मदनच्छुरिकाया इवावयवशोभां कदर्थयति कदर्थयि-

ध्यति । अन्यो नायक इति शेषः । एवं च मदुक्तनायकस्यैव त्वया संगतिः कर्तव्या ना-

न्यस्येति व्यज्यते । तेन च तस्मिन्सौन्दर्यातिशयः । वक्रापि च्छुरिका भवतीति चन्द्र-

रेखोपमानता । द्वितीयव्याख्यायां न कश्चिद्दोषः ॥
 

 
समीचीनवृत्तैरेव स्वामिकार्यार्थमाग्रहः क्रियते नान्यैरिति कश्चित्कंचिद्वक्ति-
-
 
शैथिल्येन भृता अपि भर्तुः कार्य त्यजन्ति न सुवृत्ताः ।

बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥ १८६ ॥

 
शैथिल्येनेति । मान्द्यव्याप्ता अपि । अथ च श्लथत्ववन्तोऽपि । समीचीनवृत्तशालिनः ।
 
KEIDE