This page has not been fully proofread.

१९२
 
काव्यमाला ।
 
-
 
भीता नायिका तं प्रसादयितुं वक्ति - शुकेति । कीरपदं विहाय शुकपदोपादानेन व्या-

सात्मजशुकाभेदबोधनेन क्रोधाभावौचित्यमावेद्यते । सुरतसङ्ग्रामनारद । एवं च यथा

तव सुरतसङ्ग्राम एव प्रियो न तथा भोजन मिति ज्ञानवशान्मया गतमिति भावः । एवं च

त्वदीयवचनरूपोद्दीपनवशादेव मया संकेते गतम्, अतो नायं ममापराध इति व्यज्यते । यद्वा

त्वदीयप्रियसंपादनाय गतायां मयि क्रोधकरणमनुचितं तवेति व्यज्यते । एवं च नारद-

र्ध्यभेदप्रतिपादनेनापि कोपकरणानौचित्यं ध्वन्यते । हृदयरहस्यैकसारसर्वज्ञ । एवं च

मदीयमनोजपीडाज्ञानवत्त्वेऽपि तत्प्रतीकाराय गतायां मयि कोपकरणं तव कथं नामौचि-

तीमावहतीति भावः। सर्वज्ञपदेन बुद्धाभेदप्रतिपादनेन हिंसामात्रस्याधर्मसाधनत्वसमर्थन-

प्रवणस्य तव कोपकरणेन मन्मरणमेव भविष्यतीत्यतस्तदकरणमेव तवोचितमित्यावेद्यते ।

यद्वा सर्वज्ञपदेन परमेश्वराभेदप्रतिपादनेन मम त्वदतिरिक्तं नान्यदुपास्यमस्तीति ध्वन्यते ।

तेन च मत्कृतापराधक्षमार्हत्वम् । यद्वान्तर्यामित्वेन मदीयमन्मथ वेदना ज्ञानवत्त्वं तवेति

द्योत्यते । गुरुजनसमक्षमूके त्यनेन गुरुजनसमक्षं वचनसामान्याभाववत्तया मत्कृतापराध-

कथनस्यासंभाव्यतया कोपफलाकरणेन निरर्थकतत्करणमनुचितमिति ध्वन्यते । अतः

प्रसीद जम्बूफलं दलय । एवं च न केवलं मयां स्वार्थ एव कृतः, परं त्वदर्थोऽपि संपा-

दित इति व्यज्यते ॥
 

 
बहुतर परिग्रहाभावेऽप्यतितृष्णाशालिनं कंचन कश्चिदन्योक्त्या वक्ति
--
 
शिरसा वहसि कपर्दै रुद्र रुदित्वापि रजतमर्जयसि ।

अस्याप्युदरस्यार्धे भजतस्तव वेत्ति कस्तत्त्वम् ॥ १८१ ॥
 

 
शिरसेति । हे रुद्र, शिरसा कपर्दे जटाजूटमथ च वराटिकां वहसि । रोदनं कृत्वापि

रजतमर्जयसि । 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' इत्याद्यर्थवादाद्रुद्ररोदनाद्रजतोत्पत्ति-

रिति । यद्यपि 'अग्नौ वामं वसुच संदधत' इत्यग्निरोदनाद्रजतोत्पत्तिस्तथाप्यष्टमूर्तितया

निरूपो रुद्र इत्यर्थः । अस्य । एवं चापलापानर्हत्वं ध्वन्यते । उदरस्यार्धे समांशकम् ।

'अर्धे समे॑ऽशके' इत्यमरः । एवं च विभागकाले किंचिदधिकाग्रहणेनातिकृपणत्वं ध्वन्यते ।

भजतोऽपि तत्त्वं को वेत्ति । न कोऽपीत्यर्थः । एवंच परिग्रहभावेऽतिदैन्यादिना द्रव्या-

र्जनकरणमनुचितमिति व्यज्यते ॥
 

 
कश्चित्कांचित्सामान्यवनितामन्योक्त्या वक्ति-
-
 
श्रोतव्यैव सुधेव श्वेतांशुकलेव दूरदृश्यैव ।
 

दुष्टभुजंगपरीते त्वं केतकि न खलु नः स्पृश्या ॥ ५८२ ॥
 

 
श्रोतव्यैवेति । हे केतकि, दुष्टसर्पव्याप्ते, नोऽस्माकं त्वं निश्चयेन स्पृश्या न । किंतु

सुधेव श्रोतव्यैव । न तु ग्रहीतुं शक्येत्यर्थः । तत्रापि भुजंगसंरक्षणस्य
सत्त्वादिति भावः ।

सुधाश्वेतांशुकलयोः केतक्युपमानत्वे गौरत्वं समानो धर्मः । एवं च सर्वथा स्पृहणीयत्वे-

ऽपि विटनैकट्यॆन दुर्घटा त्वत्संगतिरस्माकमिति व्यज्यते । यद्वा सुधेव श्रोतव्यैवेति
 
Digital Foundation