2023-03-07 06:58:26 by Pathan Vali Khan
This page has not been fully proofread.
चिरजीवित्वमेव प्रतिबन्धकं संवृत्तमिति भावः । एवं चैतादृग्यशसि स्पृहा न कृता, किं तु
चिरजीवित्व इति महन्मूर्खत्वमावेद्यते व्यासे । तेन च व्यासाधिकत्वं गुणाढ्ये ॥
श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः ।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना ॥ ३४ ॥
श्रीति । वाल्मीकिव्यासगुणाढ्यान्नमस्कुर्मः । यैर्वाल्मीक्यादिगुणैभिन्ना । विलक्षणरी-
त्यनुसरणादिति भावः । सरसा शृङ्गारादिमती । पक्षे सजला । वाणी सती नदीव
त्रिस्रोता गङ्गेव । स्वर्गमृत्युपातालेषु प्रवाहवत्त्वाद्गङ्गायाः । एवं च वाल्मीक्यादिवाचां स-
कलकल्मषविनाशकत्वं द्योयते । स्फुरति । एवं च त्रितयवाचां वास्तवैकरूपत्वमेवेति
व्यज्यते । तेन च वाल्मीक्यादित्रितयस्य समानत्वमावेद्यते । यद्वा वाल्मीक्यपेक्षया
किंचिन्न्यूनत्वं व्यासे, ततो गुणाढ्य इति ध्वन्यते । पूर्वत्र श्रीपदं त्रिष्वप्यन्वेति, अत्र
रामायणमात्रे ॥
साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये ।
शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥ ३५ ॥
साकूतेति । साकूतं साभिप्रायम्, मधुरं रसोत्कर्षांधायकरसनिष्ठगुणवत्, कोमलं श-
ब्दगुणशालि, एतादृशं यद्विलासशालिन्याः कण्ठकूजितं तत्प्राये । प्रायः शब्दः क्रमेण
बाहुल्यसादृश्योपस्थापकः । रतलीलाकालिदासोक्ती शिक्षासमयेऽपि मुदे । एवं चो-
भयोः समत्वमिति भावः । एवं च सर्वजनस्याप्युपदेशसमये बहुधा दुःखदत्वेन रतली-
लाकालिदासोक्त्योः सुखप्रदत्वेन वाग्विलासाधिक्यं ध्वन्यते ॥
भवभूतेः संबन्धाद्भुधरभूरेव भारती भाति ।
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ ३६ ॥
भवेति। भवभूतेः शिवैश्वर्यस्य संबन्धाद्भारत्येव सरस्वत्येव भूधरभूर्नगेन्द्रकन्या भाति ।
एवं चाणिमाद्यैश्वर्यान्तर्गतेच्छानभिघातरूपप्राकाम्याद्भारत्या नगेन्द्रकन्यारूपत्वम् । तथा
भवभूतेः कवेः । एवं चेशैश्वर्याभेदबोधनेन स्वेच्छानुरूपकार्यकारित्वं व्यज्यते । संब-
न्धाद्भारत्येव भूधरभूः पर्वतभूमिः । एवं च नान्यथा शङ्कनीयत्वमिति भावः । भाति ।
अन्यथैतत्कृतकरुणरसप्रधाने 'अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्' इत्युत्तरच-
रित्रीयपद्ये ग्रावा शैलः । 'ग्रावाणौ शैलपर्वतौ' इत्यमरः । किमिति रोदिति । यद्वा
भवभूतेः संबन्धादित्यस्य भवैश्वर्याविनाभावादित्यर्थः । भूधरभूः शैलतनया भारती
भाति । सरस्वतीरूपेण दृश्यत इत्यर्थः । एवं च यत्रेशैश्वर्ये तत्र शैलसुतयावश्यं स्थेय-
मिति नियमादीशैश्वर्यवति कवौ शैलसुता सरस्वतीरूपेणावस्थितेति भावः । एवं चैत-
त्कवेर्दक्षिणामूर्त्युपासकत्वं व्यज्यते । अत एव भवस्य शंभोर्भूतिरैश्वर्ये यस्मिन्निति नाम्नि
व्युत्पत्तिरपि संगच्छते । अथवा कवौ भवभूत्यभेदबोधनेन पार्वतीसत्त्वमावश्यकम् ।
विपक्षे तर्कमाह--अन्यथा । एतत्कृतकारुण्ये । एवं चान्यैर्बहुभिः करुणरसप्रधानानि