This page has not been fully proofread.

१२
 
काव्यमाला ।
 
चिरजीवित्वमेव प्रतिबन्धकं संवृत्तमिति भावः । एवं चैतादृग्यशसि स्पृहा न कृता, किं तु

चिरजीवित्व इति महन्मूर्खत्वमावेद्यते व्यासे । तेन च व्यासाधिकत्वं गुणाढ्ये ॥
 

 
श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः ।
 

त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्मिंभिन्ना ॥ ३४ ॥
 

 
श्रीति । वाल्मीकिव्यासगुणाढ्यान्नमस्कुर्मः । यैर्वाल्मीक्या दिगुणैभिन्ना । विलक्षणरी-

त्यनुसरणादिति भावः । सरसा शृङ्गारादिमती । पक्षे सजला । वाणी सती नदीव

त्रिस्रोता गङ्गेव । स्वर्गमृत्युपातालेषु प्रवाहवत्त्वाद्गङ्गायाः । एवं च वाल्मीक्यादिवाचां स-

कलकल्मषविनाशकत्वं द्योयते । स्फुरति । एवं च त्रितयवाचां वास्तवैकरूपत्वमेवेति

व्यज्यते । तेन च वाल्मीक्यादित्रितयस्य समानत्वमावेद्यते । यद्वा वाल्मीक्यपेक्षया

किंचिन्न्यूनत्वं व्यासे, ततो गुणाढ्य इति ध्वन्यते । पूर्वत्र श्रीपदं त्रिष्वप्यन्वेति, अत्र

रामायणमात्रे ॥
 

 
साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये ।
 

शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥ ३५ ॥

 
साकूतेति । साकूतं साभिप्रायम्, मधुरं रसोत्कर्षांधायकरसनिष्ठगुणवत्, कोमलं श-

ब्दगुणशालि, एतादृशं यद्विलासशालिन्याः कण्ठकूजितं तत्प्राये । प्रायः शब्दः क्रमेण

बाहुल्यसादृश्योपस्थापकः । रतलीलाकालिदासोक्ती शिक्षासमयेऽपि मुदे । एवं चो-

भयोः समत्वमिति भावः । एवं च सर्वजनस्याप्युपदेशसमये बहुधा दुःखदत्वेन रतली-

लाकालिदासोक्त्योः सुखप्रदत्वेन वाग्विलासाधिक्यं ध्वन्यते ॥
 

 
भवभूतेः संबन्धाद्भुधरभूरेव भारती भाति ।
 

एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ ३६ ॥
 

 
भवेति। भवभूतेः शिवैश्वर्यस्य संबन्धाद्भारत्येव सरस्वत्येव भूधरभूर्नगेन्द्रकन्या भाति ।

एवं चाणिमाद्यैश्वर्यान्तर्गतेच्छानभिघातरूपप्राकाम्याद्भारत्या नगेन्द्रकन्यारूपत्वम् । तथा

भवभूतेः कवेः । एवं चेरौशैश्वर्याभेदबोधनेन स्वेच्छानुरूपकार्यकारित्वं व्यज्यते । संब-

न्धाद्भारत्येव भूधरभूः पर्वतभूमिः । एवं च नान्यथा शङ्कनीयत्वमिति भावः । भाति ।

अन्यथैतत्कृतकरुणरसप्रधाने 'अपि प्ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्' इत्युत्तरच-

रित्रीयपद्ये ग्रावा शैलः । 'ग्रावाणौ शैलपर्वतौ' इत्यमरः । किमिति रोदिति । यद्वा

भवभूतेः संबन्धादित्यस्य भवैश्वर्याविनाभावादित्यर्थः । भूधरभूः शैलतनया भारती

भाति । सरस्वतीरूपेण दृश्यत इत्यर्थः । एवं च यत्रेशैश्वर्ये तत्र शैलसुतयावश्यं स्थेय-

मिति नियमादीशैश्वर्यवति कवौ शैलसुता सरस्वतीरूपेणावस्थितेति भावः । एवं चैत-

त्कवेर्दक्षिणामूर्त्युपासकत्वं व्यज्यते । अत एव भवस्य शंभोर्भूतिरैश्वर्ये यस्मिन्निति नाम्नि

व्युत्पत्तिरपि संगच्छते । अथवा कवौ भवभूत्यभेदबोधनेन पार्वतीसत्त्वमावश्यकम् ।

विपक्षे तर्कमाह--अन्यथा । एतत्कृतकारुण्ये । एवं चान्यैर्बहुभिः करुणरसप्रधानानि
 

 
Sri Gurgeshwari Digital Foundation