2023-03-25 03:17:22 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
नायिकाया अनेकगमनादिकं स्मरामि । एवं च तदीयतत्कालीनतादृशावस्थास्मरणेन
न मयात्र स्थातुं शक्यमिति नायकः सखायं वक्ति ॥
नायिकायास्तावदनुनयेऽपि समधिकतरमानभवनमवलोक्याभिमानितयोदासीनं ना-
यकमवलोक्य प्रशिथिलमानां कया रीत्यानुनेतव्योऽयमिति विचारयन्तीं नायिकां
सखी वक्ति--
श्रुतपरपुष्टरवाभिः पृष्टो गोपीभिरभिमतं कृष्णः ।
शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ॥ ५७७ ॥
श्रुतेति । श्रुतकोकिलरुताभिर्गोपीभिरीप्सितं पृष्टः कृष्णो वंशीरवैः कुचविनिहितन-
यनः स्वाभिमतम् । आलिङ्गनरूपमिति भावः । कथयति । गोपीपदमज्ञवं ध्वनयति
कृष्णपदं कर्षति चित्तमिति व्युत्पत्त्या स्वचित्तस्य पराधीनताभावकर्तृत्वमावेदयति ।
एवं च चातुर्याभाववत्यो गोपाङ्गना अप्यनासक्तं परमेश्वरमेवंरीत्या स्वयमेव स्ववशतां
नयन्तीति भावः । एवं चैतादृशवसन्तसमये चतुरया त्वया विषयरसलम्पटो नायकः
कयाचन रीत्या कथं न स्वाधीनतां नेतुं शक्य इति व्यज्यते । कोकिलायाः प्रथमं रवश्र-
वणे मित्त्रस्य यदभीष्टं तत्पृष्ट्वा प्रदेयमेवेति लौकिकम् । यद्वा वसन्तसमये परदेशगमनम-
नुचितमिति कश्चित्कंचिद्वक्ति – --परपुष्टा इव परपुष्टा दूतीसदृशाः कोकिला इत्यर्थः ।
तच्छब्दश्रवणाद्गोपीभिरविदग्धाभिरभिमतम् । स्वस्येति भावः । कृष्णः । एवं च मलि.-
नत्वं ध्वन्यते । पृष्टः स च वंशीरवैः । एवं च गोपनमभिव्यज्यते । तेन च पुरुषे धैर्य-
मङ्गनास्वधैर्यमिति । कुचदत्तनेत्रोऽनुमतं पृष्ठेऽर्थे संमतं वक्ति । एवं च वसन्ते मौढ्यशा-
लिन्योऽप्यङ्गनाः प्रमत्ततया समीचीनपुरुषविवेकमपास्यान्यथाचरणप्रवणा भवन्ति, किं
पुनः सकलविज्ञा इति भावः ॥
नायकप्रेमातिशयशालिन्यहमित्यभिमानशालिनीं नायिकामन्योक्त्या परनायिकासखी
वक्ति -
शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले ।
फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ५७८ ॥
शंकरेति । हे इन्दुकले, शंभुशिरसि स्थापितचरणेति हेतोरभिमानं मा उद्वह। कि-
मितीत्यत आह - तवैतस्य । गर्वस्येत्यर्थः । चण्डीचरणधूलिभिर्मार्जनरूपं फलं भवि-
ष्यति । एवं च चण्डीं मानवतीमालोक्य शंकरेण चरणप्रणामे क्रियमाणे चरणरेणुमार्जनं
भवतीति भावः । एवं च कुपिता मुत्सखी त्वां ताडयिष्यतीत्यत ईदृशगर्नेवं मा विधेहीति
ध्वन्यते ॥
कथं मयानया सह सबाधकेऽस्मिन्नेव स्थले स्थेयमिति चिन्ताव्याकुलं नायकं तत्रैव
स्थापयितुं नायिकादूती कयापि भङ्गग्या वक्ति--
शाखिशिखरे समीरणदोळायितनीडनिर्वृतं वसति ।
कर्मैकशरणमगणितभयमशिथिलकेलि खगमिथुनम् ॥१५७९ ॥
न मयात्र स्थातुं शक्यमिति नायकः सखायं वक्ति ॥
नायिकायास्तावदनुनयेऽपि समधिकतरमानभवनमवलोक्याभिमानितयोदासीनं ना-
यकमवलोक्य प्रशिथिलमानां कया रीत्यानुनेतव्योऽयमिति विचारयन्तीं नायिकां
सखी वक्ति--
श्रुतपरपुष्टरवाभिः पृष्टो गोपीभिरभिमतं कृष्णः ।
शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ॥ ५७७ ॥
श्रुतेति । श्रुतकोकिलरुताभिर्गोपीभिरीप्सितं पृष्टः कृष्णो वंशीरवैः कुचविनिहितन-
यनः स्वाभिमतम् । आलिङ्गनरूपमिति भावः । कथयति । गोपीपदमज्ञवं ध्वनयति
कृष्णपदं कर्षति चित्तमिति व्युत्पत्त्या स्वचित्तस्य पराधीनताभावकर्तृत्वमावेदयति ।
एवं च चातुर्याभाववत्यो गोपाङ्गना अप्यनासक्तं परमेश्वरमेवंरीत्या स्वयमेव स्ववशतां
नयन्तीति भावः । एवं चैतादृशवसन्तसमये चतुरया त्वया विषयरसलम्पटो नायकः
कयाचन रीत्या कथं न स्वाधीनतां नेतुं शक्य इति व्यज्यते । कोकिलायाः प्रथमं रवश्र-
वणे मित्त्रस्य यदभीष्टं तत्पृष्ट्वा प्रदेयमेवेति लौकिकम् । यद्वा वसन्तसमये परदेशगमनम-
नुचितमिति कश्चित्कंचिद्वक्ति
तच्छब्दश्रवणाद्गोपीभिरविदग्धाभिरभिमतम् । स्वस्येति भावः । कृष्णः । एवं च मलि
नत्वं ध्वन्यते । पृष्टः स च वंशीरवैः । एवं च गोपनमभिव्यज्यते । तेन च पुरुषे धैर्य-
मङ्गनास्वधैर्यमिति । कुचदत्तनेत्रोऽनुमतं पृष्ठेऽर्थे संमतं वक्ति । एवं च वसन्ते मौढ्यशा-
लिन्योऽप्यङ्गनाः प्रमत्ततया समीचीनपुरुषविवेकमपास्यान्यथाचरणप्रवणा भवन्ति, किं
पुनः सकलविज्ञा इति भावः ॥
नायकप्रेमातिशयशालिन्यहमित्यभिमानशालिनीं नायिकामन्योक्त्या परनायिकासखी
वक्ति -
शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले ।
फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ५७८ ॥
शंकरेति । हे इन्दुकले, शंभुशिरसि स्थापितचरणेति हेतोरभिमानं मा उद्वह। कि-
मितीत्यत आह - तवैतस्य । गर्वस्येत्यर्थः । चण्डीचरणधूलिभिर्मार्जनरूपं फलं भवि-
ष्यति । एवं च चण्डीं मानवतीमालोक्य शंकरेण चरणप्रणामे क्रियमाणे चरणरेणुमार्जनं
भवतीति भावः । एवं च कुपिता मुत्सखी त्वां ताडयिष्यतीत्यत ईदृशगर्
ध्वन्यते ॥
कथं मयानया सह सबाधकेऽस्मिन्नेव स्थले स्थेयमिति चिन्ताव्याकुलं नायकं तत्रैव
स्थापयितुं नायिकादूती कयापि भङ्
शाखिशिखरे समीरणदोळायितनीडनिर्वृतं वसति ।
कर्मैकशरणमगणितभयमशिथिलकेलि खगमिथुनम् ॥