This page has not been fully proofread.

काव्यमाला ।
 
नायिकाया अनेकगमनादिकं स्मरामि । एवं च तदीयतत्कालीनतादृशावस्थास्मरणेन
 

न मयात्र स्थातुं शक्यमिति नायकः सखायं वति ॥

 
नायिकायास्तावदनुनयेऽपि
 
समधिकतरमानभवनमवलोक्याभिमानितयोदासीनं ना-

यकमवलोक्य प्रशिथिलमानां कया रीत्यानुनेतव्योऽयमिति विचारयन्तीं नायिकां

सखी वक्ति-
-
 

 
श्रुतपरपुष्टरवाभिः पृष्टो गोपीभिरभिमतं कृष्णः ।
 

शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ॥ ५७७ ॥

 
श्रुतेति । श्रुतकोकिलरुताभिर्गोपीभिरीप्सितं पृष्टः कृष्णो वंशीरवैः कुचविनिहितन-

यनः स्वाभिमतम् । आलिङ्गनरूपमिति भावः । कथयति । गोपीपदमज्ञवं ध्वनयति

कृष्णपदं कर्षति चित्तमिति व्युत्पत्त्या स्वचित्तस्य पराधीनताभावकर्तृत्वमावेदयति ।

एवं च चातुर्याभाववत्यो गोपाङ्गना अप्यनासक्तं परमेश्वरमेवंरीत्या स्वयमेव स्ववशतां

नयन्तीति भावः । एवं चैतादृशवसन्तसमये चतुरया त्वया विषयरसलम्पटो नायकः

कयाचन रीत्या कथं न स्वाधीनतां नेतुं शक्य इति व्यज्यते । कोकिलायाः प्रथमं रवश्र-

वणे मित्रस्य यदभीष्टं तत्पृष्ट्वा प्रदेयमेवेति लौकिकम् । यद्वा वसन्तसमये परदेशगमनम-

नुचितमिति कश्चित्कंचिद्वक्ति – परपुष्टा इव परपुष्टा दूतीसदृशाः कोकिला इत्यर्थः ।

तच्छब्दश्रवणाद्गोपीभिरविदग्धाभिरभिमतम् । स्वस्येति भावः । कृष्णः । एवं च मलि.

नत्वं ध्वन्यते । पृष्टः स च वंशीरवैः । एवं च गोपनमभिव्यज्यते । तेन च पुरुषे धैर्य-

मङ्गनास्वधैर्यमिति । कुचदत्तनेत्रोऽनुमतं पृष्ठेऽर्थे संमतं वक्ति । एवं च वसन्ते मौढ्यशा-

लिन्योऽप्यङ्गनाः प्रमत्ततया समीचीनपुरुषविवेकमपास्यान्यथाचरणप्रवणा भवन्ति, किं

पुनः सकलविज्ञा इति भावः ॥
 

 
नायकप्रेमातिशयशालिन्यहमित्यभिमानशालिनीं नायिकामन्योक्त्या परनायिकासखी
 

वक्ति -
 

 
शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले ।
 

फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ५७८ ॥

 
शंकरेति । हे इन्दुकले, शंभुशिरसि स्थापितचरणेति हेतोरभिमानं मा उद्वह। कि-

मितीत्यत आह - तवैतस्य । गर्वस्येत्यर्थः । चण्डीचरणधूलिभिर्मार्जनरूपं फलं भवि-

ष्यति । एवं च चण्डीं मानवतीमालोक्य शंकरेण चरणप्रणामे क्रियमाणे चरणरेणुमार्जनं

भवतीति भावः । एवं च कुपिता मुत्सखी त्वां ताडयिष्यतीत्यत ईदृशगर्ने मा विधेहीति

ध्वन्यते ॥
 

 
कथं मयानया सह सबाधकेऽस्मिन्नेव स्थले स्थेयमिति चिन्ताव्याकुलं नायकं तत्रैव

स्थापयितुं नायिकादूती कयापि भङ्गया वक्ति-
-
 
शाखिशिखरे समीरणदोळायितनीडनिर्वृतं वसGिDF
 
ति ।
कर्मैकशरणमगणितभयमशिथिलकेलि खगमिथुनम् ॥ १७९
 
-
 

 
Si Gurgeshwari Diginal Fondation