2023-03-24 17:28:47 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
दूती नायिकां वक्ति--
शीलितभुजंगभोगा क्रोडेनाभ्युद्धृतापि कृष्णेन ।
अचलैव कीर्त्यते भूः किमशक्यं नाम वसुमत्याः ॥ ५७४ ॥
शीलितेति । अङ्गीकृतसर्पशरीरा । आधारतयेति भावः । अथ च कृतखिङ्गसंभोगा ।
कृष्णेन परमेश्वरेण क्रोडेन वराहरूपेण निष्कासितापि । अथ च दुष्टेन भुजाभ्यन्तरेणा-
लिङ्गितापि । भूः पृथ्वी । अथ च भवन्त्यपराधा बहवो यस्याः सकाशात्सा । अचलैव ।
अथ च चाञ्चल्याभाववत्येव । कीर्त्यते । अत्र हेतुमाह - --नामेति निश्चयेन वसुमत्याः ।
अथ च संपत्तिशालिन्याः । किमशक्यम् । न किमपीत्यर्थः । एवं च धनवत्यास्तव न
किमप्ययशः संभवीत्यतो मदुक्तनायकेन संगतिं कुरुष्वेति ध्वन्यते ॥
पूर्वनायिकासखी नायकं वक्ति--
श्यामा विलोचनहरी बालेयं मनसि हन्त सज्जन्ती ।
लुम्पति पूर्वकलत्रं धूमलता भित्तिचित्रमिव ॥१५७९५ ॥
श्यामेति । श्यामा षोडशवार्षिकी । पक्षे श्यामरूपा । विलोचनहरी लोचनयोःखस्व-
स्मिन्नासक्तिसंपादिका । तारुण्यवत्त्वादिति भावः । एवं चैतस्यास्तारुण्यवशादेव सौन्दर्ययं
न स्वाभाविकमिति व्यज्यते । पक्षेऽश्रुसंपादकतया नेत्रहरत्वम् । मनसि लग्ना । अत्र
तवेति पदानुपादानं सखीगतदुःखोद्रेकं व्यञ्जयति । इयं बाला । धूमपरम्परा । लतापदं
मालिन्यातिशयजनकतामावेदयति । भित्तिस्थचित्रमिव पूर्वकलत्रं लुम्पति । हन्तेति
खेदे । एवं चैतादृशानुचितमन्यत्रेति भावः । पूर्वकलत्रस्य चित्रोपमानतया स्वाभाविक-
सौन्दर्यवत्त्वं बहुभाषित्वाभावश्च द्योत्यते । बालायाश्च धूमलतोपमानतया मालिन्यसं-
पादकताप्रदर्शनेनासती कार्यकरणत्वमावेद्यते । आर्थिकभित्त्युपमानतया मनसिजदुःखं
ध्वन्यते । तेन वास्तवसमीचीन ज्ञान विधुरत्वम् । लुम्पतीत्यत्र काक्कावा सखीप्रश्न इत्यपि
भाति । अथवा काक्कावा न लुम्पतीत्यर्थः । पूर्वकलत्रस्नेहस्यातिदृढत्वादिति भावः ॥
प्रस्थितस्त्वं किमिति स्थितोऽसीति पृष्टः कश्चित्सखायं वक्ति--
शतशो गतिरावृत्तिः शतशः कण्ठावलम्बनं शतशः ।
शतशो यामीति वचः स्मरामि तस्याः प्रवासदिने ॥ ५७६ ॥
शतश इति । अनेकवारं गमनमनेकवारं परावृत्तिश्च । सर्वथा गमने नायिका मद्वि-
रहदहनदग्धा सती प्राणानेव त्यक्ष्यतीतिघिधियेति भावः । अत एव वारंवारं गाढालि-
ङ्गनम् । अचिरेणैवागमिष्यामि दुःखं मा कुरुष्वेत्यनुनयार्थमिति भावः । तथानेकवारं
गच्छामीति वचनम् । त्वदाज्ञा चेद्गच्छामि, नो चेन्न गच्छामीत्येवंविधम् । एवं च नायके
·नायिकाज्ञावशवर्तित्वं तेन चायन्तासक्तिमत्त्वं तेन च प्रणयभङ्गभीरुत्वमावेद्यते । प्रस्था-
नकाले इदं सर्वेवं तस्याः । तां प्रति स्वकृतमित्यर्थः । स्मरामि । एवं च तत्कालीनावस्था-
स्मरणसंजातवैकल्यविवशहृदयोऽहं गन्तुं न शक्नोमीति भावः । यद्वा प्रवास दिवसे तस्या
शीलितभुजंगभोगा क्रोडेनाभ्युद्धृतापि कृष्णेन ।
अचलैव कीर्त्यते भूः किमशक्यं नाम वसुमत्याः ॥ ५७४ ॥
शीलितेति । अङ्गीकृतसर्पशरीरा । आधारतयेति भावः । अथ च कृतखिङ्गसंभोगा ।
कृष्णेन परमेश्वरेण क्रोडेन वराहरूपेण निष्कासितापि । अथ च दुष्टेन भुजाभ्यन्तरेणा-
लिङ्गितापि । भूः पृथ्वी । अथ च भवन्त्यपराधा बहवो यस्याः सकाशात्सा । अचलैव ।
अथ च चाञ्चल्याभाववत्येव । कीर्त्यते । अत्र हेतुमाह
अथ च संपत्तिशालिन्याः । किमशक्यम् । न किमपीत्यर्थः । एवं च धनवत्यास्तव न
किमप्ययशः संभवीत्यतो मदुक्तनायकेन संगतिं कुरुष्वेति ध्वन्यते ॥
पूर्वनायिकासखी नायकं वक्ति--
श्यामा विलोचनहरी बालेयं मनसि हन्त सज्जन्ती ।
लुम्पति पूर्वकलत्रं धूमलता भित्तिचित्रमिव ॥
श्यामेति । श्यामा षोडशवार्षिकी । पक्षे श्यामरूपा । विलोचनहरी लोचनयोः
स्मिन्नासक्तिसंपादिका । तारुण्यवत्त्वादिति भावः । एवं चैतस्यास्तारुण्यवशादेव सौन्दर्
न स्वाभाविकमिति व्यज्यते । पक्षेऽश्रुसंपादकतया नेत्रहरत्वम् । मनसि लग्ना । अत्र
तवेति पदानुपादानं सखीगतदुःखोद्रेकं व्यञ्जयति । इयं बाला । धूमपरम्परा । लतापदं
मालिन्यातिशयजनकतामावेदयति । भित्तिस्थचित्रमिव पूर्वकलत्रं लुम्पति । हन्तेति
खेदे । एवं चैतादृशानुचितमन्यत्रेति भावः । पूर्वकलत्रस्य चित्रोपमानतया स्वाभाविक-
सौन्दर्यवत्त्वं बहुभाषित्वाभावश्च द्योत्यते । बालायाश्च धूमलतोपमानतया मालिन्यसं-
पादकताप्रदर्शनेनासती
ध्वन्यते । तेन वास्तवसमीचीन
भाति । अथवा काक्
प्रस्थितस्त्वं किमिति स्थितोऽसीति पृष्टः कश्चित्सखायं वक्ति--
शतशो गतिरावृत्तिः शतशः कण्ठावलम्बनं शतशः ।
शतशो यामीति वचः स्मरामि तस्याः प्रवासदिने ॥ ५७६ ॥
शतश इति । अनेकवारं गमनमनेकवारं परावृत्तिश्च । सर्वथा गमने नायिका मद्वि-
रहदहनदग्धा सती प्राणानेव त्यक्ष्यतीति
ङ्गनम् । अचिरेणैवागमिष्यामि दुःखं मा कुरुष्वेत्यनुनयार्थमिति भावः । तथानेकवारं
गच्छामीति वचनम् । त्वदाज्ञा चेद्गच्छामि, नो चेन्न गच्छामीत्येवंविधम् । एवं च नायके
·नायिकाज्ञावशवर्तित्वं तेन चायन्तासक्तिमत्त्वं तेन च प्रणयभङ्गभीरुत्वमावेद्यते । प्रस्था-
नकाले इदं सर्