This page has not been fully proofread.

१८८
 
नायिकासखी नायकं वक्ति -
 
-
 
काव्यमाला ।
 

 
शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि ।

स्ने हैकवश्य भवता त्यक्ता दीपेन वर्तिरिव ॥ ५७१ ॥
 

 
शोच्यैवेति । हे स्नेहेन प्रीत्या न तु गुणैर्मुख्यवश्य । एवं च बहुतरतदीयगुणेषु दृष्टि-

मदत्त्वा स्नेहमात्रमपेक्षस इत्यनुचितं तवेति ध्वन्यते । पक्षे तैलेन । दीपेन वर्तिरिव त्वया

परित्यक्ता सा कृशाङ्गी । एवं च सौन्दर्यवत्वमावेद्यते । कृशाङ्गीति वर्तिविशेषणमपि ।

भूतिरैश्वर्यम् । पक्षे भस्म । तत्प्रचुरा । गुणाः सौन्दर्यादयः । पक्षे तन्तवः । तत्प्रचुरा

वा भवतु । परं तु शोच्यैव । एवं च त्वया तस्यां परित्यक्तायामैश्वर्ये गुणादिकं च

तस्याः सर्वमकिंचित्करमेवेति व्यज्यते । तेन च तदीयगुणादि मात्र मवेक्ष्य त्वया तदीया-

नुरञ्जनं विधेयमिति।यद्वैश्वर्यगुणाद्युत्कर्षवशानायकं प्रत्यप्रीतिकारिणीं नायिकामालोक्य

नायकसखी नायकं वक्ति – हे स्नेहैकवश्य । एवं च तव नान्यापेक्षेति व्यज्यते । भवता

परित्यक्ता सा ऐश्वर्यसौन्दर्ययुक्तापि शोच्यैव । एवं च तस्याः संपत्तिसौन्दर्या दिमत्तया

मत्परित्यागेऽपि न किंचिद्दुःखं भविष्यतीति मनसि न विधेयं त्वयेति ध्वन्यते । तेन च

किंचित्कालं त्वया परित्यक्ता सा स्वयमेव त्वामनुनेष्यतीति ॥
 

 
कश्चित्सखायं वक्ति-
-
 
शुक इव दारुशलाकापञ्जरमनुदिवसवर्धमानो मे ।
 

कृन्तति दयिताहृदयं शोकः स्मरविशिखतीक्ष्णमुखः ॥ १७२ ॥

 
शुक इति । प्रतिदिवसं वृद्धिमान्, कंदर्पबाणैर्निशितः । दुःखद इति यावत् । मुख-

मारम्भो यस्य सः । पक्षे मदनविशिखीभूत
किंशुकवत्तीक्ष्णवदनः । मे शोकः प्रियतमाह-

दयं काष्ठशलाकापञ्जरं शुक इव । दारुपदेन च्छेदनार्हत्वं यते ।
 
द्योत्यते । छेदयति। एवं
 

न मया परदेशे स्थेयमिति ध्वन्यते ॥
 

 
काचित्क्रांचिद्वक्ति-
-
 
श्रुत्वाकस्मिकमरणं शुकसूनोः सकलकौतुकैकनिधेः ।

ज्ञातो गृहिणीविनयव्यय आगत्यैव पथिकेन ॥ १७३ ॥
 

 
श्रुत्वेति । पथिकेन निखिलकौतुकस्थानस्य शुकरूपो यः सूनुस्तस्य । एवं चातिस्ने-

हृपात्रत्वं द्योत्यते । तेन च मारणानर्हत्वम् । तत्वेऽपि तत्करणेऽत्यन्तानुचितकार्यकर्तृत्वं

नायिकायामभिव्यज्यते । आकस्मिकं यन्मरणम् । एवं च रोगाद्यनुत्पत्त्यानया मारित

इति ध्वन्यते । श्रुत्वा । गृहिण्याः । एवं चान्यानिवारणीयत्वारक्षणीयत्वादि व्यज्यते ।

विनयनाशः । अकार्यकरणमित्यर्थः । आगमनोत्तरमेव । एवकारेण दास्याद्यकथितत्वं

विनयव्यये व्यज्यते । ज्ञातः । एवं च किमकार्ये प्रमदानामिति ध्वन्यते । केचित्तु शुक्र-

सूनुरित्यस्य शुकबालक इत्यर्थमाहुः ॥
 
Sri Gurgeshtari Dignal Foundation