2023-03-24 17:09:17 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
श्रीरिति । कुचयोरल्पसाम्याच्छ्रीफलेन बिल्वफलेन श्रीर्लब्धा । तृणराजेन तालेन
राज्यं लब्धम् । सम्यक्साम्याद्धटश्चक्रवर्तित्वं चक्रसंबन्धित्वं सार्वभौमत्वं च गतः प्राप्तः ।
एवं च नीचानुकरणमनुचितमिति ध्वन्यते ॥
काचित्सखीं वक्ति--
श्रोणी भूमावङ्के प्रियो भयं मनसि पतिभुजे मौलिः ।
गूढश्वासो वदने सुरतमिदं चेत्तृणं त्रिदिवम् ॥ ५६८ ॥
श्रोणीति । भूतले नितम्बः । चलनज्ञानाभावार्थमिति भावः । चित्ते भीतिः। कदा-
चित्पतिना ज्ञेयमिति धियेति भावः । उत्सङ्गे प्रियः । जार इत्यर्थः । पतिभुजे मौलिः ।
पातीति व्युत्पत्त्या रक्षणमात्रकारित्व स्वभावेनान्धकारेऽपि करादिव्यापारेण ज्ञास्यतीति
धियेति भावः । मुखे गुप्तः श्वासः । पतिश्रवणभियेति भावः । इदम् । एतादृशमित्यर्थः ।
चेद्यदि सुरतम् । लभ्यत इति भावः । सुशब्देनान्यादृशरतेऽसमीचीनत्वमावेद्यते । तदा
त्रिदिवं स्वर्गस्तृणतुल्यः । अगणनीय इत्यर्थः । एवं चैतादृशसुरतवत्यो यास्ताः पुण्याति-
शयशालितया धन्याः, तदभावादहमधन्येति ध्वन्यते । तेन चैतादृशरतार्थं यतस्वेति ॥
नायकः सखायं वक्ति--
श्लिष्यन्निव चुम्बन्निव पश्यन्निव चोल्लिखन्निवातृप्तः ।
दधदिव हृदयस्यान्तः स्मरामि तस्या मुहुर्जघनम् ॥१५६९ ॥
श्लिष्यन्निति । आलिङ्गन्निवेत्यादयः स्मृतिप्रकाराः । अतृप्तत्वं स्मृतौ हेतुः ॥
कुपितां नायिकां नायकसखी वक्ति--
शिरसि चरणप्रहारं प्रदाय निःसार्यतां स ते तदपि ।
चक्राङ्कितो भुजंगः कालिय इत्र सुमुखि कालिन्द्याः ॥ ५७० ॥
शिरसीति । हे सुमुखि । एवं च परुषभावित्वाभावो व्यज्यते । मस्तके पादप्रहारं
दत्त्वा त्वया दूरीक्रियताम् । कालिन्द्याः कालिय इव । तथापि चक्रेण त्वच्चरणसंबन्धि-
नेत्यर्थः । चिह्नितः । पक्षे सुदर्शन चक्रेणाङ्कितः । यमुनातो निःसार्य सागराव स्थितौ गरु-
उडभयनिवारणार्थेथं कालियस्य चऋक्रचिह्नं कृतमिति पौराणिकाः । स भुजंगः खिङ्गः । पक्षे
सर्पः । ते। तवैवेत्यर्थः । एवं च त्वया कोपे कृतेऽपि स न कुपितो भवतीति व्यज्यते ।
यद्वा सखी नायिकामुपदिशति । हे सुमुखि । एवं चोपदेशाईर्हत्वमावेद्यते । यद्यपि चक्रेण
जनसंरक्षणेन चिह्नितः। 'जनावने समूहे च दम्भे भेदरथाङ्गयोः । शस्त्रभेदे च सेनायां चक्रं
चापि विहंगके ॥' इत्यभिधानात् । खिड्गस्तथापि त्वया शिरसि पादपप्रहारं दत्त्वा सते सदर्थथं
निःसार्यताम् । एवं च यद्यप्यनेन बहु दीयते तथाप्यपकीर्तिर्भूयसी भवतीत्यतस्त्वं सामी-
चीन्यार्थमेनं सनिकारं दूरीकुरुष्वेति भावः ॥
राज्यं लब्धम् । सम्यक्साम्याद्धटश्चक्रवर्तित्वं चक्रसंबन्धित्वं सार्वभौमत्वं च गतः प्राप्तः ।
एवं च नीचानुकरणमनुचितमिति ध्वन्यते ॥
काचित्सखीं वक्ति--
श्रोणी भूमावङ्के प्रियो भयं मनसि पतिभुजे मौलिः ।
गूढश्वासो वदने सुरतमिदं चेत्तृणं त्रिदिवम् ॥ ५६८ ॥
श्रोणीति । भूतले नितम्बः । चलनज्ञानाभावार्थमिति भावः । चित्ते भीतिः। कदा-
चित्पतिना ज्ञेयमिति धियेति भावः । उत्सङ्गे प्रियः । जार इत्यर्थः । पतिभुजे मौलिः ।
पातीति व्युत्पत्त्या रक्षणमात्रकारित्व स्वभावेनान्धकारेऽपि करादिव्यापारेण ज्ञास्यतीति
धियेति भावः । मुखे गुप्तः श्वासः । पतिश्रवणभियेति भावः । इदम् । एतादृशमित्यर्थः ।
चेद्यदि सुरतम् । लभ्यत इति भावः । सुशब्देनान्यादृशरतेऽसमीचीनत्वमावेद्यते । तदा
त्रिदिवं स्वर्गस्तृणतुल्यः । अगणनीय इत्यर्थः । एवं चैतादृशसुरतवत्यो यास्ताः पुण्याति-
शयशालितया धन्याः, तदभावादहमधन्येति ध्वन्यते । तेन चैतादृशरतार्थं यतस्वेति ॥
नायकः सखायं वक्ति--
श्लिष्यन्निव चुम्बन्निव पश्यन्निव चोल्लिखन्निवातृप्तः ।
दधदिव हृदयस्यान्तः स्मरामि तस्या मुहुर्जघनम् ॥
श्लिष्यन्निति । आलिङ्गन्निवेत्यादयः स्मृतिप्रकाराः । अतृप्तत्वं स्मृतौ हेतुः ॥
कुपितां नायिकां नायकसखी वक्ति--
शिरसि चरणप्रहारं प्रदाय निःसार्यतां स ते तदपि ।
चक्राङ्कितो भुजंगः कालिय इत्र सुमुखि कालिन्द्याः ॥ ५७० ॥
शिरसीति । हे सुमुखि । एवं च परुषभावित्वाभावो व्यज्यते । मस्तके पादप्रहारं
दत्त्वा त्वया दूरीक्रियताम् । कालिन्द्याः कालिय इव । तथापि चक्रेण त्वच्चरणसंबन्धि-
नेत्यर्थः । चिह्नितः । पक्षे सुदर्शन
सर्पः । ते। तवैवेत्यर्थः । एवं च त्वया कोपे कृतेऽपि स न कुपितो भवतीति व्यज्यते ।
यद्वा सखी नायिकामुपदिशति । हे सुमुखि । एवं चोपदेशा
जनसंरक्षणेन चिह्नितः। 'जनावने समूहे च दम्भे भेदरथाङ्गयोः । शस्त्रभेदे च सेनायां चक्रं
चापि विहंगके ॥' इत्यभिधानात् । खिड्गस्तथापि त्वया शिरसि पाद