2023-03-24 16:52:54 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
मानवतीं सामान्य वनितां सखी वक्ति--
शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि ।
दर्पशिलामिव भवतीं कतरस्तरुणो विचालयति ॥ ५६४ ॥
शङ्क इति । संबुद्धिपदानुपादानं क्रोधमावेदयति । या स्थैर्यप्रचुरा बाहू अपि । अ-
पिना चाटुवचनादिसमुच्चयः । श्लथयति । चालयितुमशक्यत्वादिति भावः । एवं च
करकर्षणा दिनापि नेतश्चलतीति क्रोधातिशयवत्तां द्योतयति । मनोभवस्य दर्पशिलामिव ।
मनोभवपदेनाकुण्ठितत्वं ध्वन्यते । भवतीं कतरस्तरुणो विचालयति । न कोऽपीत्यर्थः ।
इति शङ्के । एवं चैतादृशकोपकरणे कस्त्वामनुर अञ्जयिष्यतीति ध्वन्यते । यद्वा मनोभव-
स्येति बाहू इत्यत्रान्वेति ॥
नायिकासखी नायकमन्योक्त्या वक्ति--
शार्दूलनखरभङ्गुर कठोरतरजातरूपरचनोऽपि ।
बालानामपि बाला सा यस्यास्त्वमपि हृदि वससि ॥ १६५ ॥
शार्दूलेति । हे व्याघ्रनखकुटिल, अथ च शार्दूलनखवत्कुटिल । तथाविधाचरणव-
त्त्वादिति भावः । कठिनतरजातरूपस्य सुवर्णस्य रचना यस्मिन् । अथ च जाता रूपस्य
रचना यस्य । सौन्दर्यशालिन्यपि । त्वमपि । अपेरितरभूषणसमुच्चयो निन्द्यत्वं चार्थः ।
यस्या हृदि वससि । भूषणरूपतयेति भावः । अथ च तस्यास्त्वदासक्तत्वादिति भावः ।
सा बालानामपि मध्ये बाला । अतिबालिका । अत्यन्तमुग्धेति भावः । सुवर्णयुतव्याघ्र-
नखं बालहृदि भूषणं भवतीति भावः । एवं चैतादृशे कौटिल्यादिशालिनि सौन्दर्यवत्त्वे-
ऽप्यासक्तिसंपादने कथमिव मौख्ये न भवतीति भावः । यद्वा जाता रूपस्य रचना
यस्याः । एतादृश्यपि तारुण्यशालिन्यपि सात्यन्तबालिकैवेत्यर्थः । इतरत्पूर्ववत् ॥
नायिकासखी नायकं वक्ति--
श्रुत एव श्रुतिहारिणि रागोत्कर्षेण कण्ठमधिवसति ।
गीत इव त्वयि मधुरे करोति नार्थग्रहं सुतनुः ॥ १६६ ॥
श्रुत एवेति । श्रवणसमय एव कर्णसुखजनके । पक्षे श्रुतिभिर्मनोहारिणीति वा । प्री-
त्युत्कर्षेण । पक्षे श्रीरागायुत्कर्षेण । कण्ठमधिवसति । त्वन्नान्नैव सर्वत्र सख्यादिष्वपि
सा व्यवहरतीति भावः । पक्षे व्यक्तीभवतीत्यर्थः । मधुरे सुन्दरे । पक्षे माधुर्यशालिनि ।
गीत इव । द्रव्यग्रहम् । पक्षेऽभिप्रायगृहम् । सुतनुः । एवं च स्पृहणीयत्वमावेद्यते । न
करोति । एवं च नायिका न द्रव्यादिना त्वय्यनुरक्ता, किंतु त्वदीयसौन्दर्यादिगुणोत्कर्षे-
णेति भावः ॥
समीचीनसमताङ्गीकारे सम्यगेव फलं भवतीति कश्चित्कंचिद्वक्ति--
श्रीः श्रीफलेन राज्यं तृणराजेनाल्पसाम्यतो लब्धम् ।
कुचयोः सम्यक्साम्याद्गतो घटचक्रवर्तित्वम् ॥ १६७ ॥
शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि ।
दर्पशिलामिव भवतीं कतरस्तरुणो विचालयति ॥ ५६४ ॥
शङ्क इति । संबुद्धिपदानुपादानं क्रोधमावेदयति । या स्थैर्यप्रचुरा बाहू अपि । अ-
पिना चाटुवचनादिसमुच्चयः । श्लथयति । चालयितुमशक्यत्वादिति भावः । एवं च
करकर्षणा
मनोभवपदेनाकुण्ठितत्वं ध्वन्यते । भवतीं कतरस्तरुणो विचालयति । न कोऽपीत्यर्थः ।
इति शङ्के । एवं चैतादृशकोपकरणे कस्त्वामनुर